________________
( ३२६
)
हनो णिन् ।५।१११६०॥ व्याप्यान्नाम्न परात् भूतार्थाद्धन्ते निन्द्य कर्तरि णिन् स्यात् । पितृघाती ॥१६०॥ हनो णिन् । “हनंक हिंसागत्योः" पितरं हतवानिति "ञ्जिति धात्" ४।३।१००! इति पितृघाती । हननंघातः, पितुर्घातः पितृघातः, सोऽस्यास्तीत्यर्थे मत्वर्थीय इन् प्रत्ययः, तथा च पितृघातीति रूपसिद्धिर्यद्यपि भवति. तथापि ताहराप्रयोगस्य निन्दार्थमात्रे नियमार्थ सूत्रम् ।।१६०।।
ब्रह्मणवृत्रात् क्विप् ५।१।१६१॥ एभ्यः कर्मभ्यः परा तार्थाद्धन्तेः क्विप् स्यात् । ब्रह्महा । भ्रूणहा । वृत्रहा ॥१६॥ ब्रह्म०-- ब्रह्माणं हतवानिति क्विपि--ब्रह्महा, एवंभ्रूणहा । विवप०' ,वृत्रहा ।५।१।१४८। इत्यनेनैव सिद्ध नियमार्थं वचनम्, चतुर्विधश्चात्र नियमः, ब्रह्मादिभ्यः एव हन्ते ते क्विप् नान्यस्मात्, तथा ब्रह्मादिभ्यो हन्तेरेव भूतेनान्यस्माद्धातोः क्विप्, तथा ब्रह्मादिभ्यो हन्ते ते क्विबेव नान्यःप्रत्ययः, तथा ब्रह्मादिभ्यो हन्तेर्भूत एव काले क्विप नान्यस्मिन्निति ब्रह्मादिभ्यो हन्तेर्भूते बिबेव नान्य इति नियमेन क्विपाऽणादिरेव बाध्यते न तक्तवद, मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्' इति हि न्यायः ॥१६१।।
कृगः सुपुण्यपापकर्ममन्त्रपदात् ।।१।१६२॥ सोः पुण्यादेश्व कर्मणः परात् भूतार्थात् कृगः क्विप् स्यात् । सुकृत् । पुण्यकृत् । कर्मकृत् । मन्त्रकृत् । पदकृत् ॥१६२॥ कुगः सुपुण्य०-। "डुकृग् करणे" सुष्टु कृतवानिति क्विपि तस्य लोपे प्रत्ययलक्षणन्यायेन "हस्वस्य तः पित्कृति०" ।४।४।११३। इति तागमे