________________
। (
३२८
)
व्रताऽऽभीक्ष्ण्येव्रतं शास्त्रितो नियमः, आभीक्ष्ण्यं पौनस्पुन्यम् । 'वृतूङ् वर्तने' स्थण्डिले वर्तत इति-स्थण्डिलवती । पां पाने पूनः पुनः क्षीरं पिबन्तीति णिनि आत ऐकारे, आयादेशे च देशे'।२।३१७०। इति नस्य णत्वे क्षीरपाणि उशीतराः, उशीनरा उशीनरनामक देशवासिनो जनाः । अशीलार्थं जात्यथं च । वचनम् ॥१५७॥
करणाद्यजे भूते ।।१।१५८॥ करणार्थान्नाम्नः पराद्भ तार्थात् यजेणिन् स्यात् । अग्निष्टोमयाजी ॥१५॥ करणाद्-'यजी देवपूजासंगतिकरणदानेषु' अग्निष्टोमेनेष्टवानिति णिनि, उपान्त्यवृद्धौ, ङस्युक्तसमासे च-अग्निष्टोमयाजी, अग्निष्टोमस्तोत्रण समाप्यमानो यो यागः स लक्षणयाऽग्निष्टोमस्तेनापूर्व भावितवानित्यर्थः ॥१५८॥
निन्द्य व्याप्यादिन्विक्रियः ।।१।१५६ व्याप्यान्नाम्नः परात् भूतार्थाद्विकियः कुत्से कतरीन् स्यात् । सोमविक्रयो । निन्द्य इति किम् । धान्यविक्रायः ॥१५६॥
निन्द्य०-'कुत्स्ये कर्तरीति-यत्कर्म क्रीणातिक्रियया सम्बध्यमानं कर्तु: कुत्सामावहति तत्र त्यर्थः । 'डुक्रींग्श् द्रव्यविनिमेये' विनिमयः परिवर्तः, सोमं विक्रीतवानितीनि गुणेऽयादेशे, ङस्युक्तसमासे च-सोमविक्रयी। धान्य विक्राय इति-अत्र 'कर्मणोऽण् ।५।१।७२। इत्यणेव भवति । विक्रयणमलि विक्रयः, सोमस्य विक्रयः-सोमविक्रयः, सोऽस्यास्तीति विग्रहे मत्वर्थीय इनि सोमविक्रयीत्यादीनां सिद्धावपि तत्र कुत्सायाः प्रतीतिनं स्यात्, कथञ्चित् सत्यामपि तत्प्रतीतो सोमं विक्रीणातीत्यर्थेऽणेव स्यादिति तद्वाधनार्थमिदं सूत्रमावश्यकम्, अन्यथा वाऽसरूपन्यायेन सत्यपि सूत्र पक्षेऽण् . स्यात्, 'सिद्ध सत्यारम्भो नियमार्थः' इति न्यायेन तद्वाधनार्थमिदं सूत्रम् ॥१५॥