________________
( ३२७ )
अजाते:०-उष्णं भुङ्क्त इत्येवंशील:-उष्णभोजी 'भुजंप पालनाभ्यवहारयोः' इति धातुः । अजातेरिति 'प्रसज्यप्रतिषेधादसत्त्ववाचिनोऽप्युपंसर्गावत्यतः उदाहरति-प्रस्थायीति-'ष्ठां गतिनिवृत्तो' प्रतिष्ठते 'इत्येवंशील इति णिनि 'आत ऐः ।४।३।५३॥ इत्याकारस्य ऐकारे तस्य चायादेशे-प्रस्थायी । शालीन् भोक्ता इति–अत्र शालेर्जातित्वान्नानेन प्रत्ययः, किन्तु शीलार्थे 'तन् शीलधर्मसाधुषु' ।५।२।२७। इति तृन्प्रत्ययः, अस्य कृत्त्वेपि न तत्कणि षष्ठी तन्नुदन्ता०' ।२।२।६०। इति निषेधात्,किन्तु 'कर्मणि' १२।२।४०। इति द्वितीया । उष्ण भोजो मन्दः इति--मन्दत्वात् पथ्यायोष्णं भक्ते, न तु तथास्वभाव इत्यस्याप्रवृत्त्या 'कर्मणोऽण' ।५।१।७२। इत्यणेव भवतीति भावः ॥१५४॥
साधौ ।।१।१५॥ नाम्नः परात्साध्वर्थाद्धातोणिन् स्यात् । साधुकारी ॥१५॥ साधी-अशीलार्थ आरम्भः । ‘डुकृग् करणे' साधु करोतीति णिनि, वृद्धौ, : ङ्स्युक्तसमासे च–साधुकारी ॥१५५॥
ब्रह्मणो वदः ।।१।१५६॥
ब्रह्मणः पराद्वदेणिन् स्यात् । ब्रह्मवादी ॥१५६॥ .. ब्रह्मणो०-"अयमाथशीलार्थ आरम्भ' जात्यर्थोऽमरूपविधिनिवृत्त्यर्थश्च 'चद व्यक्तायां वाचि' ब्रह्म-वेदं जगद्विवर्तकारणं वा ब्रह्माणं हिरण्यगर्भ वा वंदतीति णिनि उपान्त्यवृद्धौ डस्युक्तसमासे च-ब्रह्मवादी ॥१६॥
व्रताभीक्ष्ण्ये ।।१।१५७। अनयोर्गम्यमानयो नाम्नः पराद्धातोणिन् स्यात् । स्थण्डिलवर्ती। क्षीरपायिण उशीनराः ॥१५७॥