________________
(
३२६. )
च स्युः । त्यादृशः । त्यादृक्षः । त्यादृक् । अत्यादृशः । अन्यादृक्षः । अन्यादृक् । सदृशः । दृक्षः । सदृक् । व्याप्य इति किम् । तेनेव दृश्यते ॥१५२॥ त्यदाद्यन्य.-। व्याप्ये व्याप्येभ्यः पराद् दृशेाप्य एवेति-सूत्रस्थ-व्याप्यशब्दस्य देहलीदीपकन्यायेनोभयोविशेषणत्वमिति भावः, तथा चोपपदस्यापि कर्मणि वर्तमानत्वमपेक्षितम्, प्रत्ययार्थोऽपि कर्मव, अन्यथा कृत्प्रययत्वेन कर्तरि प्रसङ्गः स्यात् । “दृशृप्रेक्षणे" 'त्यत्' शब्दः सर्वादिः, स्य इव दृश्यते इति टकि-त्यादृशः इति । इवार्थ उपमानमुपपदार्थेन्तर्भूतमिति तत्र वर्तमानत्वं त्यदादेः, 'अन्यत्यदादेराः' ।३।२।१५२॥ इति सूत्रेणान्यशब्दस्य त्यदादेश्च दृगादावुत्तरपदे आः स्यात् । टिकि टकारो ङयर्थः, ककारो गुणाभावार्थः । सकि त्यादृक्षः--अत्र धातुशकारस्य “यज-सृज०' ।२।१।८७। इति षः, तस्य षढोः कः सि' ।२।१।६२। इति ककारः, प्रत्ययसकारस्य 'नाम्यतस्था'०।२।३।१५। इति षकारः, सकि ककारोऽनुबन्धो गुणाभावार्थः । क्विपि तु त्यादृक् इति-अत्र शस्य 'ऋत्विज्' ।२।१।६६। इति गः, तस्य "विरामे वा" ।१।३।५१। इति ककारः । सदृश इत्यादि-'अत्र हल्दृशदृ?'।३।२०५१ इति सामान्य शब्दस्यसादेशः वचनभेदान्नात्र यथासंख्यम् ॥१५॥ कर्तुणिन् ।५।१।१५३॥ कत्र दुपमानात्पराद्धातोणिन् स्यात् । उष्ट्रकोशी ॥१५३॥ कर्तुणिन्-“कर्तरि" ॥५॥१॥३॥ इति णिन्प्रत्ययः कर्तरि । 'क्रुशं आह वानरोदनयोः' उष्ट्र इव क्रोशतीति-उष्ट्रकोशी अशीलार्थो जात्यर्थश्चारम्भ ॥१५३॥
अजातेः शोले ।।१।१५४। अजात्यर्थानाम्नः पराच्छीलार्थार्धातोणिन् स्यात् उष्णभोजी। प्रस्थायी । अजातेरिति किम् । शालीन भोक्ता । शील इति किम् । उष्णभोजो मन्दः ॥१५४॥