________________
(
३२५
)
-
शस्य गत्वे तस्य "विरामे वा" ।१॥३५१॥ इति कत्वे-घृतस्पृक् । उदकस्पर्शः इति-उदकं स्पृशतीति 'कर्मणोऽण्" ।५।१।७२। इत्यणि उपान्त्यगुणे ङस्युक्तसमासे उदक स्पर्शः । अनुदक इति-पयुदासाश्रयणादुदकसदृशमनुपसर्ग नाम गृह्यते, तेनेह न भवति-उपस्पृशति ।।१४६।।
अदोऽनन्नात् ।।१।१५०॥ अन्नवर्जान्नाम नः पराददेः क्विप् स्यात् । आमात् । अन्नादिति किम् । अन्नादः ॥१५०॥ ... अदोऽन्नात्- क्विप्सिद्धोऽन्नप्रतिषेधार्थ वचनम् । “अदंक भक्षणे" आममत्तीति-आमात् ॥१५०॥
क्रव्यात्क्रव्यादावामपक्वादौ ।।१।१५१॥ एतौ यथासङ्ख्यमामात् पक्कादाँ विवष्णन्तौ साधू स्तः । क्रव्यात् आममांसभक्षः । कव्यादः पक्वमांसभक्षः ॥१५१॥ · ऋव्यात्०-। आमात्पक्वादथाविति-आममत्तीति-आमात्,पक्वमत्तीति पकवात् तादृशाथी चेत् भवत इति भाव: । क्रव्यमत्तीति-क्रव्यात्,अन क्विप्, अर्थमाह-आममांस-भक्ष इति । क्रव्यादः पक्वमांस-भक्ष इति-अत्राण आममांसवाच्यपि क्रव्यशब्दः 'क्रव्याद' इति निपातनसामर्थ्यात् वृत्ती पक्व मासे वर्तते । अथवा कृतविकृत्तशब्दस्य पक्वमांसार्थस्य पृषोदरादित्वात् क्रव्यादेशः । अत्र कृत्तविकृत्तमत्तीति वाक्यम् । सिद्धी प्रत्ययौ विषयनियमार्थ वचनम् ॥१५१॥
त्यदाद्यन्यसमानादुपमानाद्वयाप्येदृशष्टक्सको च ।५।१।१५२। एभ्य उपमानेभ्यो व्याप्येभ्य पराद् दृशाप्य एव ट्कसकौ, क्विप्