________________
( ३२४ )
मन्वनुक्वनिविच् क्वचित् । ५।१।१४७।
नाम्नः पराद्धातोरेते यथालक्ष्यं स्युः । मत्- इन्द्रशर्मा । वत्विजावा । क्वनिप् - सुधीवा- विच् । शुभंयाः ॥ १४७ ॥
मन्-वन्०--'क्वचिदि' त्यस्यार्थमाह-यथालक्ष्यमिति - - यथालक्ष्यं कस्माच्चिद्धातो: सर्वे प्रत्ययाः पर्यायेण भवन्ति, कस्माच्चिदेक एव द्वौ वा तयो वेयर्थः । इन्द्रं शृणातीति मनि- इन्द्रशर्मेति, 'शृश् हिंसायाम्' इति धातुः । "जनैचि प्रादुर्भावे” विजायते इति विजावा, 'वन्याङ् पञ्चमस्य' ।४।२।६। इत्याप् । शोभनं दधातीति - सुधीवा । शुभं विभक्तयन्त प्रतिरूपकमव्ययम्, 'यांक् प्रापणे' शुभं यातीति - शुभंया: ककारपकारी किस्पित्कार्याथी 1198011
1
क्विप् । ५।१।१४८ ।
नाम्नः पराद्धातोर्यथालक्ष्यं क्विप् स्यात् । उखास्रत् ॥ १४८ ॥ क्विप् । पूते वर्तमान उखशब्दः पुंस्त्री, स्थाल्यां नित्यस्त्रीति वैयाकरणा मन्यन्ते, "संसूङ् प्रमादे" प्रमादोऽवलेपः, "स्र सूङ्, अजस्र सने" उखेन उखया वा स्रंसते इति क्विपि "नो व्यञ्जनस्यानुदितः” | ४|२|२५| इति नकारस्यानुस्वारस्थानिनो लोपे "त्र स्ध्वंस्” । २।१६८ । इत्यत्र साह - चर्यानाश्रयणाद् द्यतादेस्तदन्यस्य च त्र संधातोः सकारस्य दत्वे तत्वेच - उसास्रत् । ककारप्रकारो कित्पित्कार्याथौं । इकार उच्चारणार्थः ॥ १४८ ॥
स्पृशोऽनुदकात् । ५।१।१४६ ।
उदकवजन्नाम्नः परात् स्पृशो स्पृशेः क्विप् स्यात् । घृतस्पृक् । अनुदकादिति किम् । उदकस्पर्शः ॥ १४९ ॥
स्पृशो०- 1 "स्पृशंत् संस्पर्शे" घृतं स्पृशतीतिक्विपि तस्य लोपे इस्युक्तसमासे "यजसृज” | २|१|८७ | इति षत्वापवादे "ऋत्विज्० | २|१|६| इति