________________
( ३२३ )
मूलविमुजादयः ।।१।१४४॥ एते कान्ता यथादर्शनं निपात्यन्ते । मूलविभुजो रथः । कुमुद कैरवम् ॥१४४॥ 'भुजोत् कौटिल्ये' मूलानि विभुजतीति-मूलविभुजो रथ:-धातोरूपसर्गबलान्मर्दने वृत्तिः, तथा च विभुजतीत्यस्य विमर्दयतीत्यर्थः 'मुदि हर्षे' कु: पृथिवी, तत्र मोदते इति-कुमुदं कैरवम् ॥१४४।।
दुहेर्दु घः ।।१।१४५॥ नाम्नः पराद् दुहेर्दुघः स्यात् । कामदुधा ॥१४५॥ . दुहेडु घ:-"दुहीक क्षरणे" कामान्-अभिलाषान् दुग्धे-पूरयतीति कामदुघा, कामक्षरणमिह कामपूरणार्थे पर्यवसितमिति, धातूनामनेकार्थत्वमिति वेति पूरयतीत्युक्तम्, डुधे डकारस्येत्त्वात् 'डित्यन्त्यस्वरादे': ।२।१।१४४। इत्यन्त्यस्वरादिलोपार्थः ॥१४५।।
भजो विग् ।।१।१४६॥ नाम्नः पराद् भर्जेविण् स्यात् । अर्द्ध भाक् ॥१४६॥ भजो विण-भजी सेवायाम्' अधं भजते इति विणि तस्य 'अप्रयोगीत्' ।१।१।३७॥ इति लोपे प्रत्ययत्वात् णित्त्वाच्चोपान्त्य-वृद्धौ डस्युक्तसमासे 'चजः कगम्' ।२।१।६६। इति जस्य गत्वे 'विरामे वा' ।१।३।५१॥ इति कत्वे अर्धभाक् । ननु विणि वर्णत्रयम् तस्य प्रयोगेऽदृश्यतया 'अप्रयोगीत्' ।१।३।३७। इतीत्संज्ञा लोपश्चेति विण्प्रत्ययस्यांशेनापि प्रयोगेऽदर्शनात् तस्य प्रत्ययत्वेन विधानमपार्थकमिति चेद् । उच्यते-णकारो वृद्धयर्थः, इकार उच्चारणार्थः । वकारो विण्-क्विपोः सारूप्यार्थस्तेनानविषये 'असरूपो.' ।५।१।१६। इति प्राप्तः क्विप् न भवति ॥१४६॥