________________
( ३२२ )
स्थापा०=| 'ष्ठां गतिनिवृत्तौ' समे=अविषमे तिष्ठतीति के 'इडेत्पुसि.' ।४।२।६४॥ इत्याकारलोपे=समस्थः । कच्छ: अनूपप्रायः कूर्मपादो वा, 'पांक रक्षणे' कच्छं पिबतीति कच्छपः, 'ष्णांक शौचे' नद्यां स्नातीति नदीष्णः=तरणे कौशलमत्र गम्यते, 'निनद्याः' ।२।३।२०।। इति सस्य षः । 'ङ् पालने' धर्मात् त्रायते रक्षतीति-धर्मत्रम् ॥१४२॥
शोकापनुदतुन्दपरिमृजस्तम्बेरमकर्णेजपं प्रियालसहस्तिसूचके ।।१।१४३। एते यथासङ्ख्यं प्रियादिष्वर्थेषु कान्ता निपात्यन्ते । शोकापनुद: प्रियः । तुन्दपरिमृजोऽ.लसः । स्तम्बेरमो हस्ती। कर्णेजपोऽतिखलः । एष्विति किम् । शोकापनोदो धर्माचार्यः ॥१४३॥
शोकापनुद:=| निपात्यन्ते इति यद्यपि निपातनमलाक्षणिककार्यलाभार्थमेवाश्रीयते, अत्र च सर्वत्र न किञ्चिदलाक्षणिक कार्य प्रार्थनीयम्, तुन्दपरिमृजे वृद्धभावोऽपि पक्षे सिद्ध एव तथाप्यर्थविशेष एषां प्रयोगनियमार्थमेव निपातनीयमिति मन्तव्यम् । ‘णुदत् प्ररणे' शोकमपनुदतीति शोकापनुदः प्रियः, शोकस्याहर्ता शोकस्यावकाशमेव न ददाति पुत्रादिप्रिय इति स शोकापनुदः कथ्यते । 'मृजोक् शुद्धी' तुन्दम् =उदरं परिभाष्र्टीति=तुन्दपरिमृजोऽलस: इति=य: किञ्चित् कार्य-मकृत्वा सततमुदरभरणे दत्तचित्तस्तिष्ठति स एवमुच्यते, आलस्ययुक्त इत्यर्थः । 'मि क्रीडायाम्' स्तम्बे रमते स्तम्बेरमो हस्तीतिदर्भादितणनिचयनिर्मितो हस्तिभक्ष्यः स्तम्बः, तत्र रमते भक्षयन्नानन्दमनूभवति यः सः । 'जप मानसे च' मनोनिर्व] वचने, चकारात व्यक्त वचने, कर्णे जपति सूचयतीति=कर्णेजपोऽतिखल इतिः=मा कश्चिदन्य शृणोत्विति कर्णे सूचयति यः सः । शोकापनोदो धर्माचार्यः इति यः . संसार-सांसारिक भोगाद्यनित्यत्वादिकं सयुक्तिक-मुपदिश्य शोक नाशयति, न तु सुखमाहरति, शोकापनोद एवेति तत्रायं मा भूदिति ॥१४३॥