________________
३२१ )
"भ्रम्य तत्र प्रवर्तमानं कार्य जानाति स तापसव्यञ्जन उच्यते सेनया चरति वा सेनाचरः । आदाय = गृहीत्वा चरति = आदायचरः, आदानं कृत्वा चरतीत्यर्थः, दाधातुर्यद्यपि सकर्मकस्तथापि कर्मणोऽत्राविवक्षितत्वम् ||१३||
·
पुरोऽग्रतोऽगे सत्तेः । ५।१।१४०।
एभ्यः परात्सर्त्तेष्टः स्यात् । पुरःसरी । अग्रतःसरः । अग्रे सरः ।
॥ १४० ॥
पुरो० - । पुरः सरतीति टे टित्वाद् ङीप्रत्यये पुरःसरी । अग्रतः सरति अग्रतःसरः, ‘अग्रतस्’– शब्दे “आद्यादिभ्यः” | ७|२| ४ || इति तस् प्रत्ययः । अग्रे सरतीति - अग्रसरः, सप्तम्यलुप् एकारान्तमव्ययं वा । 1198011
पूर्वात् कर्तु : ।५।१।१४१
पूर्वात् कर्तृवृत्तेः परात् सर्वेष्टः स्यात् । पूर्वसरः । कर्तुं रिति किम् । पूर्वसारः ॥ १४१ ॥
पूर्वात् कर्तुः । पूर्वः सरतीति - पूर्वसरः, पूर्वो भूत्वा सरतीत्यर्थः । पूर्वं देशं सरति - पूर्वसारः इति = [ - अत्र कर्मणः परत्वादस्याप्रवृत्त्या 'कर्मणोऽण' ।५।१।७२ ॥ इत्यणेव भवतीत्यर्थः ॥ १४१ ॥
स्यापास्नात्रः कः । ५।१।१४२ ।
नाम्नः परेभ्य एभ्यः वः स्यात् । समस्थः । कच्छपः । नदीष्णः । धमंत्रम् | १४२ ॥