________________
( ३२० )
ऊर्ध्वा०- ० - । ऊध्वं स्थितः शेते इति ऊध्वंशयः, निद्रापञ्चकमध्ये प्रचलाभिघनिद्रामनु भवत्ययम् । उत्तानः शेते इति - उत्तानशयः, यद्यपि गभीरविपर्यये सर्वंथाप्रसृततया दृश्यमानः उत्तानशब्दः कोशादिषु पठ्यते, तथापि उत्तानशय ऊर्ध्वमुख विधाय पृष्ठभरेण शयाने जने प्रयुज्यत इति 'उत्तानशये' स एवोत्तानशब्दो ग्राह्यः, उत्तानशयशब्दश्च बाले रूढ: ' स्यादुत्तानशयो डिम्भः " इति कोश: ॥ १३६॥
आधारात् ।५।१।१३७ ।
आधारान्नाम्नः पराच्छीङो अः स्यात् । खशयः ॥१३७॥
आधारात्—। खे—अनावृतप्रदेशे शेते इति खशयः ॥ १३७॥
चरेष्टः ।५।१।१३८ ।
आधारात् परात् चरेष्टः स्यात् । कुरुचरी ॥ १३८ ॥
चरेष्टः । कुरुषु चरतीति कृरुचरी ॥१३८॥
भिक्षासेनादायात् ||१|१३८ ।
एभ्यः परात् चरेष्टः स्यात् । भिक्षाचरी । सेनाचरः । आवायचरः ॥१३६॥
भिक्षा० - । ननु पूर्वेणैव सिद्ध े ऽस्य सूत्रस्य वैयर्थ्यमिति । न । पूर्वसूत्रस्याधारोपपदत्व एव प्रवृत्तिः, अस्य चाधारेऽनाधारे चोपपद इति तदर्थमिदं सूत्रम् । भिक्षां चरतीति - भिक्षाचरीति = चरतिरिह चरणपूर्वकेऽजंके वर्तते प्रसिद्धार्थस्य गमनस्य तत्रान्वितत्वात् तथा च भिक्षां चरतीत्यस्य चरणेन भिक्षामर्जयतीत्यर्थः । सेनां चरति = परीक्षते इति = सेनाचरः, तापसत्यञ्जनोऽयम् वा । यो हि तापसरूपं कृत्वा सेनायां परि