________________
( ३१९ )
निर्गी०- 1 "आधारे" इति पूर्वत्र निपातनार्थसम्बद्धमिहाप्यनुवर्तते । यद्यपि 'देश' इति कथनेनैवाधारार्थस्य प्रतीति र्भवति तथापि कर्मण्यपि प्रत्ययविधाने देशस्य वाच्यता सम्भवतीति तन्निराकरणायाधारपदानुवृत्तिमाश्रित्याह- आधारे देशे डः स्यादिति ॥ १३३ ॥
शंमो नान्यः | ५|१|१३४
शमो नाम्नः पराद्धातोः संज्ञायामः स्यात् । शम्भवोऽर्हन् । नाम्नीति किम् । शंकरी दीक्षा ॥ १३४ ॥
1
शमो० - । शमित्यव्ययं सुखे वर्तते, भवति तत्र शम्भवोऽर्हन्निति - सुख एव तिष्ठति न कदाचिद् दुःख इति भावः । शङ्करी दीक्षेति - अयमाशय:नाम्नीति नामपदेन यदर्थे यस्य रूढिः स एवार्थो गृह्यते, 'शङ्करी दीक्षे' त्यत्र तु शङ्खरशब्दो विशेषणत्वेन प्रयुक्त इति नात्र नामत्वं तस्येति टे स्त्रियां ङीर्भवतीति, नामग्रहणाभावेऽवाप्यप्रत्यये शङ्करेति स्यादिति । १३४ |
पार्वादिभ्यः शोङ: ।५।१।१३५ ।
एभ्यो नामभ्यः पराच्छोङो अः स्यात् । पार्श्वशयः ॥१३५॥
पार्श्वा० - । “शीक्स्वप्ने” गर्थ्याभ्यां शेते इति प्रकृतसूत्रेणाप्रत्यये गुणेयादेशे युक्त मासे-पार्श्वशयः आधारभिन्नार्थात् परत्वे प्रत्ययविधानार्थ आरम्भः आधारार्थात् परत्वे च “आधारात् ” |५|१|३७|| इति परसूत्रेण सिद्धिरिति ।। १३५ ।।
"
,
ऊर्ध्वादिभ्यः कर्तुः । ५।१।१३६।
।
एभ्यः कर्तृ वाचिभ्यः पराच्छीङो अः स्यात् । ऊर्ध्वशयः उत्तानशय ॥१३६॥५