SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ( ३१८ ) 19199 | इति कर्तरि क्तं - आशित इति । " तृप्ते त्वाघ्रातसुहिताऽऽशिता” इत्यभिधानचिन्तामणिवचनात् आशितः - तृप्त इत्यर्थं ॥ १३० ॥ नाम्नो गमः खड्डौ च विहायसस्तु विह: ५।१।१३१। नाम्नः पराद् गमेः खड्डखाः स्युः विहायसो विहश्व । तुरङ्गः । तुरगः । विहङ्गः । विहगः । तुरङ्गमः । विहङ्गमः । सुतङ्गम मुनिः ॥ १३१ ॥ नाम्नो० -- | 'गमेः' इति " गम्लृ गतौ" इति गम्धातोरित्यर्थः । अत्र चकारेण पूर्वोक्तः खः समुच्चीयते इति प्रत्ययत्रयस्य विधानम् । खकारः “खित्यनव्यया०” । ३।२।१११ | इति मागमार्थः । डकारो 'डित्यन्त्यस्वरादेः' ।२।१।११४ । इति अन्त्यस्वरादिलोपार्थः । तुरः त्वरमाणो गच्छतीति डि आन्त्यस्वरादिलोपे पूर्वस्य मागमे तस्यानुनासिके - तुरङ्ग डे तु तुरगः । विहायसा--अकाशेन गच्छतीति खडि विहादेशे च विहङ्गः । तुरङ्गम इतिअत्र खप्रत्ययः || ३१॥ सुगदुर्गमाधारे । ५।१।१३२ । सुदुर्ध्या पराद् गमेराधारे डः स्यात् । सुगः । दुर्गः पन्थाः । १३२ । सुगदुर्ग०--1 आधारार्थेऽनटो बाधनार्थमिदं सूत्रमिति 'सुदुर्भ्या० :' इत्येवमेव सूत्रयतामलं निपातनेनेति चेत् ? न-त्सन्नियोगशिष्टतया खट्प्रत्ययोऽप्यनुवर्तेत, स, न नेष्टः, निपातनस्येष्टविषयत्वात् ड एव निपातितः, तथा च fauna मुखेन प्रत्ययो विधीयते इति भावः । सुखेन दुःखेन च गम्यतेऽस्मिन्निति - सुगः, दुर्गः पन्थाः ॥ १३२॥ निर्गो देशे ५।१।१३३॥ निः पूर्वाद् गमेराधारे देशे डः स्यात् । निर्गो देशः ॥ १३३॥
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy