________________
( ३१७ )
. "कृभ्वस्ति." ।७।२।१२६। इति च्वी "इश्च्वाववर्ण०" ।४।३।१११॥ इत्यवर्णस्येकारे-आढयीभविता, क्विप्वत् च्वेः, सर्वापहारः अत्र च्व्यन्तत्वादस्याप्रवृत्त्या तृच भवति । ननु शब्दस्वरूपं विशेष्यमाश्रित्य तदन्तविध्याश्रयणेनैव सिद्धे तदन्तग्रहणस्य सूत्रे वैयर्थ्य मिति । न । 'उपपदविधिषु तदन्तविधिरनाश्रित" इति ॥१२८।।
कृगः खनट करणे ।।१।१२६। नग्नादिभ्योऽच्वन्तेभ्यश्च्व्यर्थवृत्तिभ्यः परात् कृगः करणे खनट् स्यात् । नग्नकरणं चू तम् । पलितङ्करणम् । प्रियङ्करणम् । अन्धकरणम् । स्थूलङ्करणम् । सुभगङ्करणम् । आढयङ्करणम् । सुनग्नङ्करणम् । च्व्यर्थ इति किम् । नग्नङ्करोति छू तेन ॥१२६॥ कृगः०-। 'करणे' इति “कर्तरि०" ।५।१।३। इत्यस्यापवादः । अनग्नो नग्नः क्रियतेऽनेनेति करणार्थेऽनेन खनटि गुणे ङस्युक्तसमासे पूर्वपदस्य मागमेऽनुनासिके च नग्नङ्करणं चू तमिति । एवं सर्वत्र वे द्यम् ॥१२६॥
भावे चाशिताद् भुवः खः ।।१११३०॥ आशितात्पराद वो भावाकरणयोः खः स्यात् । आशितम्भवस्ते । आशितम्भव ओदनः ॥१३०॥ भावे०-। भावे चेति चकारेण करणरूपार्थः समुच्चीयते, तदाह-भावकरणयोरिति। पूर्वभावयुदाहरति-आशितम्भवस्ते इति--आशितेन तृप्तेन भूयते त्वयेतिवाक्यम्, तत्र त्याद्यन्तकर्तृत्वात् 'त्वया' इत्यत्र कर्तरि तृतीया । उदाहरणे 'ते' इत्यत्र कृदन्तकर्तृत्वात् षष्ठी। करणे उदाहरणमाह-आशितम्भव ओदन:-अत्र खेन करणस्योक्तत्वात् प्रथमा, आशितो भवत्यनेनेति वाक्यम्, 'अनेन' इति करणे तृतीया । सूत्रे 'आशिताद्' इति निर्देशेन अशश् भोजने” इत्यश्न तेः सकर्मकादपिकर्तहि क्तप्रत्ययो दीर्घत्वं च निपात्यते । अथवा आङपूर्वादविवक्षितकर्मकादश्नातेः 'गत्यर्था०'