________________
( ३१६ )
तस्मातु दृशिनैव तत्र सम्बन्धः, न सूर्येणेति विवक्षितार्थप्रतिपादनासहत्वम् तथापि विवक्षितार्थप्रतिपत्तिसत्त्वात् समासः ॥१२६।।
इरम्मदः ॥१।१२७। इरापूर्वान्मदेः खश् स्यात् । इरम्मदः ॥१२७॥ ... इरम्मद:-। कर्मण इति निवृत्तम् । “मदैच् हर्षे” तृजादिषु प्राप्तेषु खश् निपात्यते , तत्र दिवादित्वात् श्ये प्राप्ते तदभावश्च निपात्यते, तदाहखश्श्याभावश्च निपात्यते इति । इरा सुरा, तया माद्यतीति–इरंमदः इति–मागमह्रस्वादिकं प्राग्वदवसेयम् ।।२७।।
नग्नपलितप्रियान्धस्थूलसुभगायतदन्ताच्च्व्यर्थेऽच्वे वः खिष्णुखुको ।।१।१२८॥ नग्नादिभ्यः केवलेभ्यस्तदन्तेभ्यश्चाऽच्व्यन्तेभ्यश्र्थवृत्तिभ्यः परा इ वः खिष्णुखुको स्याताम् । नग्नम्भविष्णुः। नग्नम्भावुकः । पलितम्भविष्णुः । पलितम्भावुकः । प्रियम्भविष्णुः । प्रियम्भावुकः । अन्धम्भविष्णुः । अन्धम्भावुकः । स्थूलम्भविष्णुः । स्थूलम्भावुकः । सुभगम्भविष्णुः । सुभगम्भावुकः । आढयम्भविष्णुः । आढयम्भावुकः । तदन्तः । सुनग्न भविष्णुः । सुनग्न भावुक इत्यादि । अच्वेरिति किम् । आढयीभविता ॥१२॥
नग्न०-। अनग्नो नग्नो भवतीति खिष्णो “नामिनो०" ।४।३।१। इति गुणेऽवादेशे ङस्युक्तसमासे "खित्यनव्या०" ।३।१।१११॥ इति मागमे "तो मुमो०" ।१।३।१४। इति सूत्रेणानुनासिके नग्नम्भविष्णुरिति, खकत्रि तु "नामिनोऽकलि." ।४।३।५१। इति वृद्धाबवादेशे च नग्नम्भावुकः एवम्अपलितःपलितो भवतीति पलितम्भविष्णुः, पलितम्भावुकः । एव सर्वत्र वाक्यं विज्ञेयम् । आढयीभवितेति-पूर्वनच जायो भवतीति