________________
... ( ३१५ )
बहुविध्वरुस्तिलात्तुदः ।।१।१२४॥ एभ्यः कर्मभ्यः परात्तुदेः खश् स्यात् । बहुन्तुदः । विधुन्तुदः । अरुन्तुद । तिलन्तुदः॥१२४॥ "तुदीत् व्यथने" बहु तुदतीति खशि तुदादित्वातु शविकरणे पूर्वाकारलोपे ङित्त्वात् गुणाभावे ङस्युक्तसमासे मागमे तस्यानुनासिके च बहुन्तुदः । एवं विधुचन्द्र तुदतीति-विधुन्तुद: । व्रणार्थकोऽरुस्शब्दः, अरुस्तुदतीति खशि 'खित्यनव्यया०' ।३।२।१११॥ इति मोन्ते 'संयोगस्यादौ०' ।२।१।८।। इति स्लोपे च-अरुन्तुदः ॥१२४॥
ललाटवातशत्तिपाऽजहाकः ।।१।१२५॥ एभ्यः कर्मभ्यः परेभ्यो यथासङ्ख्यं तपाऽजहाग्भ्यः खश् स्यात् । ललाटन्तपः । वातमजः । शद्ध जहः ॥१२५॥ ललाट- “तपं.संतापे" ललाटं तपतीति खशि शवि पूर्वाकारलोपे मागमे तस्यानुनासिके च ललाटन्तपः।"अज क्षेपणे च" चकाराद गती प्रातमजतीति-वातमजः । अत्र “अधन ०" ।४।४।२। इत्यजेवीं आदेशो न भवति, खशः शित्त्वात् “ओहांक त्यागे" शर्धोऽपानशब्दः, तंजहातीति खशि बादित्वात् द्वित्वे पूर्वहस्य जत्वे ह्रस्वे आकारस्य “इडेत्०" ।४।३।१४। इति लुकि ङ्युक्तसमासे पूर्वपदस्य मागमे तस्यानुनासिके च-शर्धन्जहः ॥५२५।।
असूर्योग्राद् दृशः ।।१।२६॥ आभ्यां कर्मभ्यां परादृशेः खश् स्यात् । असूर्यम्पश्यः । उग्रम्पश्यः ॥२६॥ असूर्यो०- "दृशृप्रेक्षणे", सूर्यमपि न पश्यतीति-असूर्यम्पश्यः, "श्रोति." ४।२।१०८। इति दृशः पश्यादेशः, अत्र दर्शनं प्रतिषिध्यते न तु सूर्य एव,