________________
( ३१३ )
.. कर्मणः परादेजयतेः खश् स्यात् । अरिमेजयः ॥११८॥
कर्मणः परादेजयतेरिति-“एजुङ कम्पने" इति एज् धातुः कम्पनार्थक आत्मनेपदी, तत्र ण्यन्तस्यायं निर्देशोऽथवा शूद्धस्यैव धातनिर्देशे विहितेन किप्रत्ययेन इप्रत्ययेन वा निर्देश इति सन्दिग्धम्, तत्र निर्णयार्थमुक्तम्-एजयतेरिति, एवं च ण्यन्तादित्यर्थोऽभिमतः । न च ण्यन्तपरिग्रहे मानाभाव इति वाच्यम्, खशः शित्त्वस्य सार्थक्यानुरोधेन तथा स्वीकारस्यावश्यकत्वात् । शित्त्वं सार्वधातुकत्वनिमित्तकः शव् यथा स्यादित्येवमर्थम्, शुद्धस्य 'एज्' धातोः शवि सत्यसति वा विशेषाभावेन, ण्यन्ते च विशेषस्य स्पष्टतया तस्यैव ग्रहणमिति स्वीकर्तव्यत्वात् । नत्र शित्त्वमुत्तरत्र चरितार्थमिति तत्सामर्थ्यादिहोक्तार्थासिद्धिरिति वाच्यम्, इहार्थवत्त्वे सम्भवति केवलमुत्तरार्थत्वस्यान्याय्यत्वात् । अरिमेजयतीति-अरिमेजयः ॥११॥
शुनीस्तनमुञ्जकूलास्यपुष्पात् धेः ।।१।११६॥ एभ्यः कर्मभ्यः धेः खश् स्यात् । सुनिन् यः । स्तनन्धयः । कूलन्धयः । आस्यन्धयः । पुष्पन्धयः ॥११६॥ .
"टधे पाने" इति टका गनुबन्धम्यानुकृतस्य 'धे' धातोः पञ्चम्येकवचने-टधेरिति । शूनीधयति खमि अयादेश ङस्युक्तसमासे 'खित्यनव्यया० ३।२।१११।। इति हरवे मागमेऽनुनासिके च शुनिन्धयः ।।११।।
नाडीघटीखरीमुष्टिनासिकावाताद् ध्मश्च ।।१।१२०॥ एभ्यः कर्मभ्यः पराद् ध्मः धेश्च खश् स्यात् । नाडिन्धमः । नाडिन्धयः । घटिन्धमः । घटिन्धयः । खरिन्धमः। खरिन्धयः । मुष्टिन्धमः मुष्टियः । नासिवन्धमः । नासिकन्धयः । वातन्धमः । वातन्धयः ॥१२०॥