________________
( ३:२ )
यद्यपि धातुनिर्देशे “इकिश्तिव्" ।।३।१३८। इतिश्यप्रयोजकः श्तिव् भवतीति “मन्यतेणिन्” इत्येव सूत्रपुचितम्, तथापि लाघवानुरोधेन सौतत्वात् श्तिवो लुकं कृत्वा ‘मन्य, इति निर्देशः कृतः, यद्वा सोत्रत्वाद श्तिवं विनापि सविकरणो निर्देशः । पण्डितं मन्यते बन्धुमिति वाक्येऽ नेन णिनि उपान्त्यवृद्धौ ङस्युक्तसमासे पण्डितमानी बन्धोरिति । बन्धुमिति त्याद्यन्तकर्मत्वात् द्वितीया, बन्धोरिति कृदन्तकर्मत्वात् षष्ठी। ननु णिनि सति गणपाठकृतस्य कस्यचन विकरणादेः प्राप्त्यभावात् यदेवं मन्यतेणिन्प्रत्यये कृते पण्डितमानीति “रूपं तदेव मनुतेरपीति गणविशेषपठितधातुपरिग्राहकश्यरूपविशिष्टस्य निर्देशो नावश्यक इति लाघवाय “मनो णिन्" इत्येव सूत्र्यतामिति । न । उत्तरत्र देवादिकस्य मन्यतेरेव ग्रहणं स्यात्, न तु तानादिकस्य मनुतेरित्येतदर्थ श्यनिर्देश आवश्यकः ॥११६॥
कर्तुः खश् ।५।१।११७। प्रत्ययर्थात्कर्तुः कर्मणः परान्मन्यते: खश् स्यात् । पण्डितम्मन्य: कर्तुरिति किम् । पटुमानी चैत्रस्य ॥११७॥
कतुं : खश्--। प्रत्ययार्था कर्तु: कर्मण: परादिति पूर्वतोऽनुवृत्तस्य कर्मण इति पदस्य विशेष्यत्वं कर्तुश्च विशेषणत्वमित्यर्थः सम्पन्नः। कृत्प्रत्ययस्यार्थविशेषविधि विना "कर्तरि" ।।१।३। इति सूत्रेण कर्तरि विधानात् प्रत्ययस्य कर्थकत्वम्, एवं च प्रत्ययार्थभूतः कतैव यत्र कर्मतया विवक्षितस्तात्रपि ततः परान्मन्यतेणिन् प्रत्ययः प्राप्तः, तद्विषयेऽनेन खश् विधीयते । पण्डितमात्मानं मन्यत इति खशि श्यविकरणे डस्युक्तसमासे "खित्यनव्यया." ।३।२।१११। इति मागमेऽ नुनासिके च पण्डितम्मन्यः । पटुमानी चैत्रस्येति-पट मन्यते चैत्रमिति वाक्यम् । अत्र च प्रत्ययार्थातिरिक्तमेव कर्म, नतु प्रत्ययार्थः कर्ता कर्मेति तत्र पटुमन्यः चैत्रस्येति न भवति, अपि तु पटुमानी चैत्रस्यत्येकमेव, एकसूत्रत्वे कर्तु रित्यस्याभावे चात्रापि खश स्यादेवेति भावः ।।११७।।
एजे: ।।१।११८