________________
( ३११ )
पुरन्दरभगन्दरौ ।।१।११४॥ एतौ संज्ञायां खान्तौ निपात्येते । पुरन्दरः शक्र । भगन्दरो व्याधिः ॥११४॥ 'दृश् विदारणे' अतो ण्यन्तात्, पुरो रिपूणां नगराणि, पुरं दारयतीति खे पुरन्दरः शक्रः । भग दारयतीति-भगन्दरो व्याधिः। धारे धर्च इतिवत 'दारेदंर्च' इत्येव वक्तव्ये निपातनाश्रयणं व्यर्थमिति । न । रेफान्तस्य पुर्शब्दस्यामन्तताऽप्राप्तेतिं निपतिनमावश्यकम् । एवमन्यदपि निपातनस्य फलं वेद्यम् ।।११४॥
वाचंयमो व्रते ।।१।११॥ व्रते गम्याने वाचः कर्मणः पराद्यमे खो वाचो ऽमन्तश्च स्यात् । वाचंयमी व्रती ॥११॥
वाचंयमो० व्रतं शास्त्रबोधितो नियमः ‘यमू उपरमे' अस्यान्तर्भावितण्यर्थत्वात् सकर्मकत्वमिति वाच यच्छति नियमयति वा वाचंयमो व्रतीति वाच उपरमणं हि तस्या नियमनमेव, सावधे न वदिष्यामि, निरवद्यमपि हित मितं प्रियं च वदिष्यामि, तत्राप्यतावन्तं कालं न वदिष्यामीत्यादि संकल्परूपमिति भावः ।।११५।।
मन्याणिन् ।।१।११६॥ कर्मणः परान्मन्यतेणिन् स्यात् पण्डितमानी बन्धोः ॥११६॥ मन्याण्णिन् । सूत्रे ‘मन्यात् णिन्' इति विश्लेषः, मन्यात् इति च मन्यशब्दस्य पञ्चम्येकवचने रूपम, ‘मन्य' इति च श्यविकरणसहितो निर्देशः, तेन श्यविकरणार्हस्य "मनिच ज्ञाने" इत्यस्य ग्रहणम्, न तु तदनहस्य ‘मनुयि बोधने” इति तानादिक्रस्य, तदाह-परान्मन्यतेरिति ।