________________
( ३१० )
भृवृजित तपदमेश्च नाम्नि ।।१।११२॥ कर्मणः परेभ्य एभ्यः सहेश्च संज्ञायां खः स्यात् । विश्वम्भरा भूः। पतिम्वरा कन्या। शत्रुञ्जयोऽद्रिः । रथन्तरं साम । शत्र न्तपो
राजा । बलिन्दमः कृष्णः । शत्रु सहो राजा। नाम्नीति किम् । कुटुम्बमारः ॥११२॥ भूव० 'भृग् भरणे' 'टुडुभूग्क् पोषणे च' चकाराद् धारणे, विश्वं भरति बिति वेति-विश्वम्भरा भूः-सा हि स्वोत्थानौषध्यादिना सर्वान् पुष्णाति धारयति च 'वृन्ट वरणे', वृङश् संभक्तो' संभक्तिः संसेवा, पति वृणोति वृणीते वेति पतिवरा कन्येति-अजातविवाहसंस्कारा कन्या, सा हि पतिं वृणोति वृणीते वेति सार्थकं नाम तस्याः । शत्र न जयति-शत्र. जयोऽद्रिरिति-"शत्रु जयो विमलाद्रि" इत्यभिधानचिन्तामणिः, विमलगिरिप्रभावतः शुकनृपस्य विना संग्राम शत् णां जयो जातस्तेन विमलगिरेः शव जयेति नाम ख्यातिमगमत् । रथं तरतीति-रथन्तरं सामेति-रथन्तरमिति सामवेदशाखाया नाम । शत्रु तपतीति शव न्तपो राजा। 'दमूच उपशमे' अस्याकर्मकत्वाद् कर्मणः परत्वं न सम्भवतीति । न दभिरन्तभतण्यर्थो ण्यन्तश्चात्र गृह्यते । उभयथापि सकर्मकत्वं युज्यत एवेति हृदयम्, बलिं दाम्यति दमयति वा-बलिन्दमः कृष्णः । शत्र सहतीतिशत्रसहो राजा । कुटुम्बं बिभर्तीति-कुटुम्बभारः इति-नेयं कस्यापि संज्ञेत्यस्याप्रवृत्त्याऽणेव भवतीति भावः ।।११२।।
धारेर्धर्च ।।१।११३॥
कर्मणः पराद्धारेः संज्ञायां खः स्यात् धारेश्च धर् । वसुन्धरा भूः ॥११३॥ धारेधर्च चुरादेराकृतिगणत्वात् 'धृण धारणे' इति धातुः । आदेशस्य स्पष्टतया प्रतिपत्तषे रेफस्य स्थाने सूत्र विसर्गादिर्न कृतः । वसु धारयतीति वसुन्धरा भूरि-ति ॥१३॥