________________
( ३०७ )
विद्या । श्राद्धकरः । प्रेषणकरः । शब्दादिनिषेधः किम् । शब्दकार इत्यादि ॥ १०३॥
हेतु० - । हेतुः प्रतीतशक्तिकं कारणम्, तच्छीलं तत्स्वभावः, अनुक्कल आराध्यचित्तानुवर्त्ती । यशः करोतीति टे गुणे ङस्युक्त - समासे टित्त्वात् स्त्रियां ङीप्रत्यये - यशस्करी विद्येति - विद्याया यशोहेतुत्वमिह गम्यते, "अतः कृकमि० " | २|३|५| इति रस्य सत्वम् । श्राद्धं करोतीत्येवंशील:श्राद्धकरः । षणं करोतीति षणकरः, अत्त्रानुकूल्यं गम्यते । पदकृत्यं पृच्छति शब्दादि निषेधः किमिति उत्तरयति शब्दं करोतीति "कर्मणोऽण" ५।१।७२ ॥ इत्यणि शब्दकारः ॥ १०३॥
भृतौ कर्मणः ||५||१०४ ।
व शब्दात् कर्मणः परात्कृगो भृतौ गम्यायां टः स्यात् । कर्मकरी दासी ॥ १०४ ॥
भृतो० - । भृतिर्वतनं कर्ममुल्यमिति यावत् । "कर्मणोऽण्” ।५।१।७२ | इति पूर्वसूत्रानुवृत्तं 'कर्मणः" इति अत्रोक्तस्य 'कर्मण:' इति पदस्य विशेषणमिति तदनुसारमेवार्थमाह - कर्मशब्दात् कर्मणः परादिति । कर्म करोतीतिकर्मकरी दासी । ननु कर्मनुशब्दस्य " कतु र्व्याप्यं कर्म" | २२|३|| इति स्वशास्त्रेण परिभाषितत्वात् तदर्थबोधकत्वमेव युक्तम्, न तु शब्दस्वरूपपरत्वमिति शब्दस्वरूपपतया व्याख्यानमयुक्तमितिचद् । उच्यते । पुनः कर्मग्रहणं शब्द रूपकर्मप्रतिपत्त्यर्थम् । अन्यथा 'वर्मणः' इत्यस्य "कर्मणोऽण्” १५/१/७२ | इति सूत्रात् धाराप्रवाहन्यायेनानुवर्तसनित्वात् पुनः कर्मग्रहणस्य वैयथ्यं स्यात् ॥१०४॥
क्षेमप्रियमद्रभद्रदात् खाऽण् ॥५।१।१०५।
एभ्यः कर्मभ्यः परात् कृगः खाणौ स्याताम् । क्षेमङ्करः । क्षेम