________________
( ३०६ )
करः । प्रभाकरः। भास्करः । चित्रकरः । कर्तृकरः । आदिकरः । अन्तकरः । अनन्तकरः। कारकरः । बाहुकरः। अरुष्कर । धनुष्कर । नान्दीकर । लिपिकरः। लिविकरः। बलिकरः । भक्तिकर: । क्षेत्रकरः । जङ्घाकरः । क्षपाकरः । क्षणदाकरः । रजनिकरः । दोषाकरः । दिनकरः । दिवसकरः ॥१०२॥ सङ्ख्या०-। व्याकरणे "स्वरूपं शब्दस्याशब्दसंज्ञेती न्यायात् शब्दस्य स्वरूपमात्रवाचकत्वस्य सिद्धान्तितत्वेन संख्येति शब्दस्यापि स्वरूपमात्रपरत्वं स्यादित्याशङ्कायामाह-संख्येत्यर्थप्रधानमपीति-अपिना स्वरूपपरमपीति भावः । अर्थप्रधानत्वस्य संख्याशब्दस्य भावेन संख्यार्थका एकादयः शब्दा गृह्यन्ते । अहेत्वाद्यर्थ आरम्भः । अहः करोतीति-अहस्कर इति'अहन्' इत्यस्य “रो लुप्यरि०" ।२।११७५। इति नकारस्य रेफः, तस्य "अतः कृ०" ।२।३।५। इति इति सत्त्वमत्र विझेयम् । दिवा दिवसं करोतीति दिवाकरः इति-'दिवा' इत्याकारान्तमन्त्ययमहीत्यर्थे तस्याधिकरणशक्तिप्रधानस्यापि कर्मत्वं बोध्यम् । भासः करोतीति-भास्करः, कस्कादित्वात् रेफस्य सकार: । अनन्तं करोतीति-अनन्तकरः, अथानन्तग्रहणं किमर्थम् ? अन्तग्रहणादेवानन्तशब्देऽपि तदन्तविधिना भविष्यति, नैतदस्ति-सर्वस्मिन्नुपपदविधौ नहि तदन्तविधि-रिष्यते । अरुः क्षतम्, अरुः करोति, धनु:करोतीति च-अरुष्करः, धनुष्कर: इति-:समासेऽसमस्तस्य" ।२।३।१३। इति षत्वम् । नान्दी देवादि स्तुति करोतीति-नान्दीकर: अक्षरन्यासे लिपिलिविः” इत्यभिधानचिन्तामणिः, लिपि लिविं करोतीति लिपिकरः लिविकरः क्षपा क्षणदा रात्रिः, क्षपां क्षणदां करोतीति क्षपाकरः, क्षणदाकरः । रजनि करोतीति-रजनिकरः, इतोऽक्त्यर्थात"।२।४।३२। विकल्पेन डीविधानादत्र न डीः । दोषा रात्रिं करोतीति-दोषाकरः ॥१०२।। .
हेतुतच्छोलानुकूले ऽशब्दश्लोककलहगाथावरचाटुसूत्र
मन्त्रपदात् ।।१।१०३। एषु कर्तृषु शब्दादिवर्जात् कर्मणः परात्कृगष्टः स्यात् । यशस्करी