________________
{ ३०५ }
साधनं च शक्तिः, न वस्तुस्वरूपम्, व्रीहिशब्दो वत्सशब्दश्च वस्तुस्वरूपेण स्वार्थमाचष्टे न शक्तिस्वरूपेणेति, तेनाशक्तिस्वरूपेण प्रतीयमानो व्रीहिवत्सश्च नार्हति प्रत्ययार्थो भवितुम्, सोऽप्रत्ययार्थः सन्नशक्तित्वात् कथमिमं प्रत्ययार्थं बाधेत, तस्मात् प्रत्ययार्थस् तेन कर्तरि विशिष्यते इति युक्तमुक्त वत्सव्रीह्योः कर्त्रीरिति । एष न्यायोऽन्यत्रापि प्रत्ययार्थविशेषणे द्रष्टव्यः । शकृत् करोतीति-शकृत्करिर्वत्सः, शकृत्शब्दः पुरीष वचनोऽपि वत्सकृतशुष्कप्रायपुरीषपरः स्तम्बं करोतीति--स्तम्वक रिवहिः स्तम्बशब्द स्तृणनिचयपरः || १०० |
1
,
कियत्तद्वहोर: | ५|१|१०१ ॥
एभ्यः कर्मभ्यः परात् कृगो, अः स्यात् । किंकरा । यत्करा । बहुकरा ॥ १०१ ॥
किम्यत्० - - किं करोमीत्याज्ञां प्रतीक्षते इति -- किङ्करा इति-कुरु इति विनियुक्तः किमिति पृच्छति तदुत्तरं यथादिष्टं करोतीति भाव: । किङ्करशब्दो दासीपर्यायः, दासी चानकूला भवतीत्यनुकुलायां वाच्यायां “हेतुतच्छीला० ” | ५ | १|१०३ | इति परसूत्रेण टप्रत्यये विहितेऽ प्यविधानं ङयभावार्थम्, अन्यथा टप्रत्ययस्य टित्त्वात् 'अणजे ' ० | २|४| २० | इति ङी: स्यादिति ज्ञापनार्थं 'किङ्कर' इत्यनुदाहृत्य किङ्करेत्युदाहृतम् ||१०१ ||
सङ्ख्याऽर्हदिवाविभानिशाप्रभाभाश्चित्रकर्त्ताद्यन्तानतकारबाह्ररुर्धनुर्नान्दी लिपिलिविब लिभक्तिक्षेत्रजङ्घाक्षपाक्षणदारज निदोषादिन
दिवसा : ।५।१।१०२ ।
सङ्ख्येत्यर्थं प्रधानमपि एभ्यः कर्मभ्यः परात्कृष्टः स्यात् । सङ्ख्याकरः । द्विकरः । अहस्करः । दिवाकरः । विभाकरः । निशा