SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ ( ३०४ ) दृति०-दृतिः चर्मखल्लः, चर्मभस्त्रा च, चर्म इत्यपि केचित्, नाथो नासारज्जुः । दृति हरतीति इप्रत्यये गुणे ङस्युक्तसमासे दृतिहरि श्वाः । नाथं हरतीति नाथहरिः सिहः ॥१७॥ रजःफलेमलाद ग्रहः ।।१।। एभ्यः कर्मभ्यः परात् ग्रहेरिः स्यात् । रजोग्रहिः । फलेनहिः । मलग्रहिः ॥९॥ रजः० । 'ग्रहीश् उपादाने' रजो गृह णातीति-रजोग्रहिः । फलानि मृह णातीति-फलेग्रहिः-सूत्र निर्देशादत्रत्वम् । मलं गृह णातीति-मलग्रहिः ॥१८॥ देववातादापः ।।१६। आभ्यां कर्मभ्यां परादापेरिः स्यात् देवापिः । वातापिः ॥६॥ देव०-"आप्लृट् व्याप्ती" देवानाप्नोतीति-देवापिः । वातमाप्नोतीति वातापिः ॥६॥ सकृत्स्तम्बाद् वत्सनीही कृगः ।।१।१००। .. आभ्यां कर्मश्यां परात् कृगो यथासङ्ख्यं वत्सवीह्योः कोरिः स्यात् । सकृत्करिर्वत्सः । स्तम्बकरिवाहिः ॥१०॥ वत्सव्रीह्योः कर्बोरिति--एतेन ब्रीहिवत्सग्रहणं प्रत्ययार्थस्य कर्तु विशेषणमिति दर्शयति, प्रत्ययार्थत्वं तु “कर्तरि" ।५।१।३। कृदिति वचनात् । कुतः पुनरेतदवसितं प्रत्ययार्थस्य विशेषणमेवेति, न पुनर्बाधकमेवेति, तदुच्यते धातोः प्रत्ययस्य विधानात् तदर्थंस्य येन सम्बन्धस्तत्र वाच्ये प्रत्ययेन भवितव्यम्, धात्वर्थः क्रिया, तस्याश्च साधनेन सम्बन्धो न वस्तुस्वरूपेण,
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy