________________
( ३०३ )
वर्तत इत्येके, अपरे तु-अस्थिहरणेन हि तस्य तादृशावस्था गम्यते यत्र तस्य दन्ता अस्थिचर्वणयोग्या न भवन्ति । अंशं हरतीति-अंशहरो दायादः, मनो हरति या सा मनोहरा माला, न चाशादिहरणमुद्यम एवेति वाच्यम्, पूर्व व्यास्यातस्योत्क्षेपणस्योपरि धारणस्य वा तत्राभावात् । भारहार इति -अत्र 'कर्मणोऽण् ।५।१।७२॥ इत्यणेव भवति । नन्वनुद्यम इत्युक्त्रैव उद्यमभिन्ने सर्वत्र प्रत्ययविज्ञानाद् वयस्यपि भविष्यत्येवेति वयोग्रहणस्य वैयर्थ्य मितिचेदच्यते-वयसि क्रियमाणः सम्भाव्यमानो वोद्यम उच्यमानवयो गमयतीति वयोगणस्योद्यमार्धत्वात् । नहि श्वशिशुः सर्वदाऽस्थि हरति, असति अस्थिहरणेसोऽस्थिहरशब्देन कथयितु शक्यतेऽतः समभाव्यमानो वेत्युक्तम् ॥६५॥
आङः शोले ॥१६॥
कर्मणः परादाङपूर्वाद्ध गेः शीले गम्येऽच् स्यात् । पुष्पाहरः । शील इति किम् । पुष्पाहारः ॥९६॥ आङःशीले-। शीलं स्वाभाविकी प्रवृत्तिः । पुष्पाण्याहरतीत्येवं शील:पुष्पाहरः- पुष्पाण्याहरणे स्वाभाविकी फलनिरपेक्षा वृत्तिरस्येत्यर्थः । पुष्पाहर इति-देवपूवजाद्यर्थं पुष्पाण्याहरतीत्यर्थः । अत्र शीलार्थाभावादस्याप्रवृत्त्याऽणेव भवतीत्यर्थः । ननु लिहादेराकृतिगणत्वादेव पूजाहादीनां सिद्धौ "अर्होऽच्" ।५।१।६१॥ इत्यारभ्य प्रवृत्तस्याप्रकरणस्य वैयर्थ्यमिति चेदुच्यते-यद्यपि लिहादित्वादच् सिद्धस्तथापि कस्मात् धातोः कस्मिन्नर्थे किमुपसर्गपूर्वादच् प्रत्यय इष्ट इति विशेषण प्रपञ्चयितुमिदं प्रकरणमारब्धमिति नास्य वैयर्थ्यमिति हृदयम् ॥६६॥
वृतिनाथात् पशाविः ।।१।६७। आम्यां कर्मभ्यां पराद्धगः पशौ कर्तरि इः स्यात् । दृतिहरिः श्वा । नाथहरिः सिंह ॥१७॥