________________
( ३०२ )
तत्र नायं प्रयोग इत्याह-सूत्रधार इति-अत्राणेव भवति । यो हि सूत्रं गृह्णाति न तु धारयति स एवमुच्यते ॥१३॥
आयुधादिभ्यो धृगोऽदण्डादेः ।।१।६४॥ दण्डादिवर्जादायुधादेः कर्मणः पर्राद् धृगोऽच् स्यात् । . धनुर्द्धरः । भूधरः। अदण्डादेरिति किम् । दण्डधारः। कुण्डधारः । ॥ ६४ ॥ आयुधादिभ्यो० । अत्रादिशब्द:प्रकारवाचको न तु प्रभृत्यर्थकः, तथा चायुधवाचकप्रकाराः आयुधवाचक सदृशा.शब्दा आयुधादित्वेन गृह्यन्ते, न तु आयुध--शस्त्रप्रभृतयः शब्दा गृह्यन्ते, केवलमायुधवाचकस्यैव ग्रहणेऽभिमते तु 'आयुधेभ्य इत्येव ब्रूयात् । 'धृग धारणे' धनुर्धरतीत्यचि गुणे ङस्युक्तसमासे च धनुर्धरः । आदिग्रहणादाह-भूधर इति, आदिशब्दस्य प्रकारवाचकत्वमित्युक्तम्, यथा धनुर्धार्यते तथा भरपीत्यायुध-सादृश्यभुव इति प्रत्ययो भवति । दण्डादिवर्जनप्रयोजनं पृच्छतिअदण्डादेरिति किमिति, उत्तरयति दण्ड धरतीति' कर्मणोऽण्' ।५।१।७२।। इत्यणि वृद्धोऽस्युक्तसमासे दण्डधारः, एवं कुण्डधारः, वर्जनाभावेऽत्राय्यच् प्रवर्तेत, स च नेष्यत इति भावः ॥१४॥
हगो वयोऽनुद्यमे ॥१६॥ कर्मणः पराद्धगो वयस्यनुद्यमेच गम्येऽच् स्यात् । अस्थिहरः श्वशिशुः ।उद्यमः उत्क्षेपणमाकाशे धारणं वा तदभावे। अंशहरो दायादः । मनोहरा माला । वयोऽनुद्यम इति किम् । भारहारः ॥६॥ हृगो०-- प्राणिनां कालकृतावस्था वयः । उद्यम उत्क्षेपणम्, आकाशस्थस्य वा धारणम्, तदभावोऽनुद्यमः । 'हग हरणे' अस्थि हरतीति. अचिगुणे डस्युक्तसमासे अस्थिहरःश्वशिशुरिति-अस्थ्युत्क्षेपणसमर्थे वयसि