________________
( ३०१ )
।२।४।२०। इयि ङीः स्यात् ॥११॥
धनुर्दण्डत्सरुलाङ्गङ्लाकुष्टियष्टिशक्तितोमरघटाद् ग्रहः ।५।१६२। एभ्यः । कर्मभ्यः पराद् ग्रहोऽच् स्यात् । धनुग्रहः । दण्डग्रहः । सरुग्रहः । लाङ्गलग्रहः । अकुशग्रहः । ऋष्टिग्रहः । यष्टिग्रहः । शक्तिग्रहः । तोमरग्रहः । घटग्रहः ॥१२॥ धनु०-। “ग्रहीश् उपादाने' । धनुर्गुणातीत्यचि ङस्युक्तसमासे-धनुर्ग्रहः इति, पवं दण्डं गृह्णातीति दण्डग्रहः, त्सरु कृपाणमुष्टिं गृह्णातीति-त्सरुग्रहः, लाङ्गलं हलं गृह्णातीति-लाङ्गलग्रहः, अङ्कुशं गृह्णातीति अङ्कुशग्रहः, ऋष्टिं खङ्गगृगातीति-ऋष्टिग्रहः, यष्टि' गृह णातीति यष्टिग्रहः शक्तिशस्त्रविशेषं गृह्णातीति-शक्तिग्रहः, तोमरं गृह्णातीति तोमरग्रहः, घटं गृह्णातीति घटग्रहः । 'नामग्रहणे लिङ्गविशिष्टस्याहि ग्रहणं' मितिन्यायात् घटीग्रह इत्यत्राप्यच् सिद्धः ॥६२॥
सूत्राद्धारणे ।५।१।६३॥ सूत्रात्कर्मणः पराद् ग्रहो रहणपूर्वकधारणार्थादच् स्यात् । सूत्रग्रहः प्राज्ञः सूत्रधारो वा । धारण इति किम् । सूत्रग्रहः ॥३॥ सूत्राद्धारणे-। सूत्र कार्पासादिमयं लक्षण सूत्रं वाऽविशेषेण गृह्यते । ग्रहधातो-ग्रहणार्थकत्वेनैव सूत्रग्रहणकर्तरि प्रयोगस्य निर्वाधत्वेन 'धारणे'इति यदुक्त तस्य फलमाह-ग्रहणपूर्वकधारणार्थादिति । सूत्रं गृह णातीति सूत्रग्रहः प्राज्ञ: सूत्रधारो वेति, सूत्रमुपादाय धारयतीत्यर्थः । प्राज्ञो गुरोः सकाशात् लक्षणसत्रं प्राप्य धारणति, अन्यश्च लोके कर्पासादिमयं कुतश्चनोपादाय धारयति । पृच्छति-धारण इति कितितिग्रहण धारणयोः पर्यायप्रायत्वेन धारण इत्यस्य वैयर्थ्यमिति प्रश्नाशयः ग्रहधातोरुपादानमात्रार्थो न तु धारणमपि, तथा च यः केवलं गृह्णात्येव