________________
( ३०० )
चन्तयोनिर्देश:, तेन हन्तेः टक् प्रत्ययो भवति, हन्ते--र्घादेशो भवतीत्यथलभ्यते । राजा नंहन्तीति - राजधः ॥८८॥
पाणिघताडयौ शिल्पिनि |५|१८|
एतौ शिल्पिनि टगन्तौ निपात्येते । पाणिघः । ताडघः । शिल्पिनीति किम् । पाणिघातः । ताडघातः ॥ ८६ ॥
पाणिघ- पाणि हन्तीति पाणिघः शिल्पी | ताडं हन्तीति ताडघः शिल्पी । पृच्छति -शिल्पिनीति किमिति, उत्तरयति - पाणिघातः, ताडघातः इति -: यथाकथञ्चित् हन्तीत्यणि घातादेशे च पाणिघातः, ताडघात इति ॥ ८ ॥
कुक्ष्यात्मोदरात् भृगः खिः ।५।१०।
एभ्यः कर्मभ्यः पराद्भगः खिः स्यात् । कुक्षिम्भरिः । आत्मम्भरिः । उदरम्भरिः ॥ ६० ॥
कुक्ष्या० । “टुडुभृ ंगक्पोषणे" कुक्षिमेव स्वीयमुदरमेव न परं बिर्भात पुष्णातीति खौ गुणे "खित्य ० ' | ३ |२| ११ | इति पूर्वस्य मेन्तागमे ङस्यु - समासे कुक्षिम्भरिः, आत्मानमेव विभर्तीति-आत्मम्भरिः, उदरमेव बिभर्तीति उदरम्भरिः । “तौ मुमो० ' | १|३ | १४ | इति मस्यानुस्वारानुना सिकौ भवति इति कुक्षिभरि आत्मंभरिः, उदरंभरिरित्यपि भवति ॥ ६० ॥
अर्होऽच् ||५|१|१|
कर्मणः परादर्हेरच् स्यात् । पूजार्हा साध्वी ॥१॥
अर्होच्- । “कर्मणोऽण” | ५|१|७२ | इत्यणोऽपवादो योगः (अचाणोः सरू - पत्वेन नित्यापत्रादत्वमित्यर्थः । " अर्ह पूजायाम् ” समासे पूजार्हा साध्वी । अत्राच्भावादाप् सिद्ध:
पूजा मर्हतीत्यचि ङस्यु। अणि तु 'अणο'