________________
. ( २९६ )
हस्ति । चित्तवदर्थ आरम्भः । हस्तिनं हन्तुं शक्त इति टकि प्राग्वदुपान्त्यलोपे घनादेशे चहस्तिघ्नः । बाह हन्तुं शक्तः बाहघ्नः । कपाटं हन्तु शक्तः कपाटघ्नः । पृच्छति-शक्ताविति विनापि तद्ग्रहणं प्रयोगेन शक्तिगम्यत एवेति प्रश्नाशयः । न केवलं शक्त्यैव हस्ती मारयितुं शक्यतेऽपि तु शक्तिविकलेनापि विषादिना हननस्य साध्यत्वात् तत्र हस्तिघ्न इति प्रयोगस्य वारणाय शक्तावित्यावश्यकमित्याह-हस्तिघातो विषदः । हस्तिनं हन्ति विषेणेत्यर्थः । अत्राण प्रत्यय एव भवति । अत्रोक्त तत्त्वबोधिन्याम् --"यद्यपि शक्तिग्रहणसामर्थ्यात् प्रकर्षों गम्यते, तेन स्वबलेनैव हन्तु या शक्तिः सा गृह्यते” इति । तथा च विषेण गजहनने न कर्तु: स्वकीया शक्तिः प्रतीयतेऽपि तु विषस्यैवेति ॥६॥
नगरादगजे ।।१।। नगरात्क मणः पराद्धन्तेरगजे कर्तरि टक् स्यात् । नगरघ्नो व्याघ्रः । अंगज इति किम् । नगरघातो हस्ती ॥८७॥ नगरादगजे- चित्तवदर्थः आरम्भः । यद्यपीदं सूत्र विहाय पूर्वसूत्र एव नगरशब्दोऽपि पठ्यते तदापि नगरघ्न इति स्यादेव, शक्त रत्रापि ज्ञायमानत्वात्, तथापि गजेऽपि प्रत्ययःस्यादेवेति तन्निवृत्तये योगविभाग आवश्यकः । नगरं हन्तीति नगरघ्नो व्याघ्रः । पृच्छति-अगज इति किमिति । पूर्वत्रव नगरशब्दः पठ्यतामिति प्रश्नाशयः । उत्तरयति-नगरघातो हस्तीति-अणो हि टकारसरूपत्वेननित्यबाधादण् नस्यादिति नगरघ्न इत्येव स्यादिति भावः ।।८७॥
राजघः ।।१।८।
राज्ञः कर्मणः पराद्धन्तेष्टक् घादेशश्च निपात्यते । राजघः ॥८॥ राजघः । निपात्यते इति–अलाक्षणिक कार्य विना निपातनमलभ्यमिति निपातनमाश्रितम् । तत्र वृत्तौ हन्तेरिति तन्त्रेण पञ्चम्यन्तषष्ठ