________________
( २६८ )
जायापतेश्चह्नवति ||१२८४।
आभ्यां कर्मभ्यां पराद्धन्तेश्चिह्नवति कर्त्तरि टक् स्यात् । जायाघ्नो ब्राह्मणः पतिघ्नी कन्या ॥ ८४ ॥
चिह्न शरीरस्थं शुभाशुभसूचकं तिलकालकादि । जायां हन्तीति जायाघ्नोब्राह्मणः । यद्यपि जायाघ्नशब्देन सामान्यतो जायाह्ननकर्तेव लभ्यतेऽर्थः, न च तावता जायाहननसूचक चिह्नवत्त्वं गम्यते तथापि अप्राप्तायां जायायां प्राप्तायामपि स्वस्तिमत्यां स्थितायां कृतस्य जायाघ्न इति प्रयोगस्य सामान्यतो जायाहननकर्तुं त्वमर्थो न मन्तुं शक्यतेऽसम्भवात्, शिष्टवाक्यत्वेन च तस्य निरर्थकत्वमपार्थत्वं वा न युक्तम्, तस्मात् जायाहननसूत्रकापलक्षणवानयनिति तदर्थो निश्चयः । वस्तुतस्तु तादृ शलक्षणवत्त्वमात्रेण न तद्घननकर्तृ ' त्वं सम्भवति तादृशलक्षणेन ह्यस्य जाया नक्ष्यतीत्येव ज्ञायते न तु स्वय-मेक तां हनिष्यतीति, तथापि तादृशलक्षणवत्त्वे स तद्धन्तैवेति गोणों व्यवहारः । चित्तवदर्थोऽयमारम्भः || ८४ ॥
ब्रह्मादिभ्यः ।५।१।८५|
एभ्यः कर्मभ्यः पराद्धन्तेष्टक् स्यात् । ब्रह्मघ्नः । गोघ्नः पापी
॥८६॥
ब्रह्मादिभ्यः - ब्रह्म हन्तीति टकि कित्त्वात् 'यमहन० |४| २|४४ । इत्युपान्त्य - लोपे 'हनो० ” | २|१|११२ । इति घ्नादेशे च ब्रह्मघ्न इति । गां हन्तीति गोघ्न इति । चित्तवदर्थं आरम्भः ||५||
हस्ति बाहुकपाटाच्छौ |५|श८६ ।
i
एभ्यः कर्मभ्यः पराद्धान्तेः शक्तौ गम्यायां टक् स्यात् । हस्तिघ्नः । बाहुघ्नः । कपाटघ्नः । शक्ताविति किम् । हस्तिघातो विषद्रः ॥ ८६ ॥