________________
( २३७ )
नच पूर्वसूत्रेणैव क्लेशादिकर्मणः परादपपूर्वाद्धन्तेः उप्रत्ययः स्यादिति किमनेनेति वाच्यं यत्र नाशीविवक्षाऽपि तु वस्तुस्थितिकथनमेव तत्रापि प्रत्ययः स्यादित्येतदर्थत्वात् । क्लेशमपहन्ति - क्लेशापहः । तमोऽपहन्ति-तमोपह्ः बहुवचनाद् यथादर्शनमन्येभ्योऽपि भवति ॥ ८१ ॥
कुमार - शीर्षाण्णिन् ।५1१1८ ।
आभ्यां कर्मभ्यां पराद्धन्तेर्णिन् स्यात् । कुमारघाती । शीर्षघाती ॥८२॥
कुमारं हन्तीति कुमारघाती " णिति घात् " | ४ | ३ |५० | इति घातादेशः ङस्युक्तसमासः । शिरः शीर्षं वा हन्तीति - शीर्षघाती - अत एव कुमारशीर्षादिति निर्देशाच्छिरसः शीर्षभावः शिरःशब्द पर्यायोऽकारान्तः प्रकृत्यन्तरं शीर्षशब्दो वा । शीर्यते नश्यति जरसा = शीषं "ऋजि- रिषि " । उणा० ५६७। इति कितु सः । शीर्षशब्दस्य प्रकृत्यन्तरत्वे कोशप्रमाणमुच्यते 'उत्तमाङ्ग ं शिरः शीर्ष मूर्धाना मस्त कोऽस्त्रियाम् ।' इदं सूत्रे कालसामान्ये विहितमपि भूतातिरिक्त एव काले प्रवर्तते, भूते च 'हनो णिन् ' |५|१|६० । इति सिद्धः एव ॥ ८२॥
#
अचित्ते टक् ।५।१।८३।
कर्मणः पराद्धन्तेरचित्तवति कर्त्तरि टक् स्यात् । वातघ्नं तैलम् । अचित्त इति किम् । पापधातो यतिः ॥ ८३ ॥
अचित्तवतीति न विद्यते चित्तं यस्य तस्मिन् अचित्त - चित्तवद्भिन्न इत्यर्थः । केचित्तु चित्तस्याभावोऽचित्तं तदस्यास्तीति 'अभ्रादिभ्यः ' |७|२|४६ । इति मत्वर्थीयेऽप्रत्यये - अचित्त इति । वातं हन्तीति वातघ्न 'तैलम् | गमहनः' । ४ | २|४४ । इत्युपान्त्यस्य लोपः 'हनो हनो घ्नः ।' | २|१|११२ | इति नादेशः, तेलमिति विशेष्यमचित्तकर्तृत्वज्ञापनार्थम् । पापं हन्तीति - पापघातो यतिः ||१३||