________________
( २९६ )
इदमुत्तरं चोपसर्गाथं वचनम् ॥७॥
प्राज्ज्ञश्च ।।१७।
कर्मणः परात् प्रपूर्वात् जो दागश्च डः स्यात् । पथिप्रज्ञः । प्रपाप्रदः ॥७९॥ द इत्यस्य चकारेणानुकर्षः ख्य इति तु नानुवर्तते पूर्वसूत्रे चानुकृष्टत्वात् । ज्ञ इत्यनेन "ज्ञांश अवबोधने” इत्यस्य ग्रहणम् । पन्थानं प्रजानातीति पथिप्रज्ञः। प्रपा प्रददाति-प्रपाप्रदः । “कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसंप्रत्ययः” इति न्यायेन कृत्रिमस्यैव “अवौ दाधी दा"।३।२।५॥ इति विहितदासंज्ञकस्य ग्रहणे प्राप्तेऽपि ज्ञाख्याधातू रूपपरावेव न संज्ञापराविति तत्सहचारितः दाधातुरपि रूपपर एव, न संज्ञापर इति ज्ञायते । एवं च यद्यपि दारूपस्यैव ग्रहण मिति स्थिते "दाम् दाने” दांव क लवने" "देव शोधने" "देङ् पालने” “डुदांगक दाने इति सर्वेषामिह पूर्वसूत्रे च ग्रहणमित्यायाति तथापि पूर्वसूत्रे दाग इति कथमुक्त मित्यस्यसमाधाने सर्वेषां दारूषत्वाविशेषे "गा मादा-ग्रहणेष्वविशेषः” इति न्यायासिद्धऽपि दाग एवाङा प्रयोगा दृश्यन्त इति प्रयोगस्वाभाव्यात् दाग एव दारूपस्य ग्रहणमिति भावः ॥७॥
आशिषि हनः ।।१।८। . कर्मण, पराद्धन्तेराशिषि डः स्यात् । शत्रुहः ॥५०॥ "हनंक हिंसागत्थोः" शत्रु वध्यादित्याशास्यमानः शत्रुहः ॥२०॥
क्लेशादिभ्योऽपात् ।।१।८१॥ क्लेशादिकर्मणः परादपाद्धन्तेर्डः स्यात् । क्लेशापहः ततोपहः । ॥ ८१ ॥