________________
। २६४ )
दर्शने सुखं प्रतीक्षत इति सुखप्रतीक्षा। 'क्षमौषि सहने' 'क्षमीच सहने' बहु क्षमते बहु क्षाम्यतीति वा “मोऽ कमिरमि०" ।४।३।६५॥ इति वृद्धयभावे वहुक्षमा । यद्यपि अल्पत्रन्तैः शीलादिभिः धर्मः शीलो यस्या इत्यादिबहुव्रीही सति धर्मशीलादयः सिध्यन्ति तथापि कर्मणोऽण् । इति अण्बाधनाथ वचनम् । अणि हि सति स्त्रियां डीः स्यात् । ननु “कमि" इति निर्देशेऽपि "कर्मेणिङ्" ।।४।२। इति "प्रकृतिग्रहणे स्वार्थिकप्रत्ययान्तस्यापि ग्रहणम्" इति न्यायात् ण्यन्तस्य ग्रहणं भविष्यतीति एयन्तोपादानं व्यर्थमिति चेत्सत्यम् अस्मादेव ण्यन्तनिर्देशात् अण्यन्तनिर्देशे “अतः कृ-कमि०" ।२।३।५। इत्यादौ केवलस्यैव कमेग्रहणम् तेन पयः कामयत इत्यर्थे णौ णे सति सकाराभाव ड्यभावश्च-पयःकामा । ण्यभावे तु अणि सति सकारो ङीश्च भवति-पयःकामी ।।७३।।
गायोऽनुपसर्गाट्टक् ।।१।७४। . कर्मणः परादनुपसर्गात् गायतेष्टक् स्यात् बगो । अनुपसर्गादिति किम् । खरुसंगायः ॥७॥ वक्रं गायतीति-वक्रगीः । ककार: "इडेत्पुसि चातो लुक" ।४।३।६४। इत्याकारलोपार्थः, टकार: ड्यर्थः, ङस्युक्तसमासः खरु संगायतीति खरुसंगाय: "कर्मणोऽण्" ।५।१।७२। इत्यण "आत ऐ:०" ।४।३।४३। इत्याकारस्यकार आयादेशश्च । खरु इति गीतविशेषस्य संज्ञा । “गोऽनुपसर्गाटटक इति सूत्रकरणे "गामादाग्रहणेष्वविशेषः इति न्यायेन गाङ गती इत्यस्यापि ग्रहणं प्राप्यते तत्र तु टक्प्रत्ययो नाभिमतः इति गाय इति कृतम् ॥७४।।
सुरा-सीधोः पिबः ।।१७। आभ्यां कर्मभ्यां परादनुपसर्गात्पिबतेष्टक् स्यात् । सुरापी । सीधुपी ॥७॥ समाहारे निर्देशे क्लीबत्वेऽपि नागमो न विहित: आगमशासनस्यानित्य