________________
( २६३ )
करोतीति-मद: करणविवक्षात्र । सम्बन्धसामान्यविवक्षायां मृदो घट करोतीति । विकार्य कर्म द्विधा
प्रकृत्युच्छेदसम्भूतं किञ्चित् काष्ठादिभस्मवत् ।
किञ्चिद् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् ।। यत्र कारणगतरूपस्य सर्वात्मना परित्यागस्तदाद्यम् । यथा काष्ठं भस्म करोति । यत्र कारणगतरूपेण सह गुणान्तरोपत्तिविवक्ष्यते तत् द्वितीयं यथा सुवर्ण कुण्डलं करोति । प्राप्यं कर्म
क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते ।
दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते ॥ यत्र दर्शनात् (प्रत्यक्षात्) अनुमानाद्वा क्रियाकृतविशेषाणां सिद्धिर्न गम्यते तत्प्राप्यं कर्म । यथा- करोतीति निवत्यै कर्मणि स्वरूपलाभ एब क्रियाकृतविशेषो दर्शनाद् गम्यते । पुत्रः सुखं करोतीत्यादी सुखलाभरूप एव क्रियाकृतविशेषोऽनुमानात् मुख्यप्रसादलिङ्गसहकारेण गम्यते । कटं पश्यतीत्यादौ कश्नित् क्रियाकृतविशेषो न दृश्यते नवाऽनुमीयते अतश्च कटेति प्र.प्यं कर्म । यद्यपि क्रियया प्राप्यमाणत्वात् सर्वस्य कर्मणः प्राप्यत्वं सम्भवति तयाष्यवान्त रभेदविवक्षयेदं त्रैविध्यं प्रदर्शितम्-अजाद्यपवादोयम् कुम्भकार इति-कुम्भं करोतीत्यनेनाण् वृद्धिः आरादेशश्च । “ऐकायें" ।३।२।८। इत्यमो लोप: “इस्युक्तं कृता" ।३।११४६। इति समासः । कुम्भो हि. अविद्यमानमेवोत्पत्द्यते, उपादानकरणस्य चाविवक्षेति-निर्वयं कर्मदम् ।।७२।।
शीलिकामिभक्ष्याचरीक्षिक्षमो णः ।।१।७३। कर्मणः परेम्यः एभ्यो णः स्यात् । धर्मशोला । धर्मकामा । वायु. भक्षा । कल्याणाचारा । सुखप्रतीक्षा । बहुक्षमा ॥७३॥ शीलण उपधारणे उपधारणमभ्यासः परिचयो वा धणं शीलयतीति धर्मशीला सा । कमूङ कान्तो कान्तिरभिलाषः धर्म कामयत इति-धर्मकामा। "भक्षण अदने वायु भक्षयतीति वायुभक्षा । इकारी धातुस्वरूपनिर्देशार्थः । चर् भक्षणे च चकाराद् गतौ कल्याणमाचरतीति-कल्याणाऽऽचारा । ईक्षि .