________________
(२९२ )
-
-
-
-
शान्तिः, पौरभूः, वर्द्धमानः ॥७॥ "शमूच उपशमे" शम्यादिौशास्यमानः इति-शान्तिः अत्र "तेहादिभ्यः" ।४।४।३२॥ इति नियमादिडभावः “अहन्पञ्चमस्य." ४।१।१०७। इति दीर्घः, "म्नां." ॥१३॥३६॥ इति मस्य नकारश्च । वीरो भूयादित्याशास्यमानः वीरभूरिति अत्र क्विप्प्रत्ययः । वर्षिषीष्टेतिवर्धमानः अत्रानशि शवि मागमः ॥७॥
कर्मणोऽण ॥१७॥ कर्मगः परोद्धातोरण स्यात् । कुम्भकारः ॥७२॥ कर्मणः इति न स्वरूपग्रहणम् "स्वं रूपं शब्दस्याशब्दसंज्ञा" इत्यत्र असंज्ञेति निषेधात् । न च कर्मशब्दात् क्रियाग्रहणं शक्यते इति वाच्यं "कृत्रिमाकृत्रिमयोः०” इति न्यायात् । अत्र कर्मणो निर्वत्य-विकार्यप्राप्यरूपत्वात्त्र विध्याद् बहुवचन-निर्देशे उचितेऽपि जातिविवक्षयैकवचननिर्देशः । निर्वत्यकर्मणो लक्षणमित्थम्
- सती वा विद्यमाना वा प्रकृतिः परिणामिनी।
यस्य नाश्रीयते तस्य निर्वय॑त्वं प्रचक्षते ॥ अस्यार्थश्चेत्थम्-यस्य सती परिणामिनी प्रकृति श्रीयते यस्य चाविद्यमाना प्रकृति श्रीयते तत्कर्म निवत्यर्थं कथ्यते । अयमाशयः यस्योपादानकरणं नास्ति यस्य वा सदष्युपादानकरणं न विवक्ष्यते तदुभयं निर्वत्यं कर्म ।यथा संयोमं करोति-द्रत्यस्यैवोपादानकारणस्य भावात् संयोगस्य गणत्वादस्योपादानकारणस्यैवाभावः । घटं करोतीत्यत्र घटस्य द्रत्यरूपतयोपादानकारणस्यावश्यंभावेऽपि तदविवक्षात्र । विवक्षायां तूपादानकारणस्य कार्यसामानाधिकरण्येन प्रतीत्या मदं घट करोतीति स्यात तदविवक्षया घटमिति निर्वर्त्यमेव कर्म। यदा तपादानकारणमेव परिणामित्वेन कार्यसामानधिकरण्येन विवक्ष्यते तदा तत विकार्यं कर्म-यथा पूर्वोक्तं मदं घटं करोतीति । यदा च कार्येण सह कारणस्य वैयधिकरण्यं विवक्ष्यते तदा चोपदानकारणविवक्षायामपि निर्वत्त्यमेव यथा-मृदा घटं