________________
( २६१ )
.मवस्य । जहति उदकं दूरोत्थानात् अथवा गत्यर्थस्य व्युत्पादने जिहते वा द्रुतं हायना ब्रीहयः। शीघ्रवृद्धिरेवैषां द्रुतगतिः सद्य एव जलादूर्ध्वमुत्तिष्ठन्तीति जलत्याग एव क्रियते तैः ॥६॥
प्रसृल्वोऽकः साधौ ।।१।६६। एभ्यः साध्वर्थेभ्योऽकः स्यात् । प्रवकः । सरकः । लवकः । साधाविति किम् । प्रावकः ॥६६॥ साधुत्वं क्रियाविशेषणमिह न तु प्रत्ययार्थत्वमित्याह-साध्वर्थेभ्य इतिप्रुङ गती साधु प्रवत इत्यनेनाके गुणेऽवादेशे च प्रवकः क्रियाविशेषस्य क्लीबत्वं द्वितीया च भवति । मुंगतो “साधु सरतीति सरकः । लुग्श् छेदने" साधु लुनातीति लवकः । प्रवत इति णक:-वृद्धावावादेशे च प्रावकः साधुत्वाभावान्नात्राकप्रत्ययः ॥६॥
1७०॥
आशिष्यऽकन् ।५।१।७०। आशिषि गम्यायां धातोरकन् स्यात् । जीवका । आशिषीति किम् ? जीविका ॥७॥ अप्राप्तस्याभिलषितस्य प्रार्थनमाशीः। न चासौ प्रयोक्तृधर्मः नासो प्रत्ययार्थो भवितुमर्हतीत्याशयेनाह-तस्यां गम्यायामिति “जीव प्राणधारणे" जीवतादित्याशास्यमानो-जीवकः इति । अकनि णके वा पुसि रूपसाम्यात् स्त्रियां प्रत्युदाहरति-जीविकेति-अत्र णकप्रत्यय आप “अस्यायत्" ।२।४।१११। इतीकारश्च । नकार: “इच्चा०" ।२।४।१०७। इत्यादौ व्युदासार्थः ॥७०॥
७०॥
तिक्कृतौ नाम्नि ।।१७१। आशीविषये संज्ञायां गम्यमानायां धातोस्तिक कृतश्च स्युः ।