________________
( २६० )
इत्याकारस्य इकारे नर्तिका । पुसि प्रयोजनाभावेऽपि स्त्रियां प्रयोजनाथं सूत्रमिदम् ॥६५॥
गस्थकः ।।१॥६६॥ गः शिल्पिनि कर्तरि थक: स्यात् । गायकः ॥६६॥ ... ग इति-"मैं शब्दे" "गाङ् गतौ" इत्युभयोः “गामादाग्रहणेष्वविशेषः" इति न्यायेन ग्रहणप्राप्तावपि गायतेरेव ग्रहणम्, शिल्पिन्यर्थे अस्य विधानात् गत्यर्थात्परस्य थकस्य शिल्पिनमभिधातुम समर्थतया लक्ष्यानुरोधादिह शब्दार्थकस्य गायतेरेव ग्रहणमिति भावः ॥६६॥
टनण् ।।१।६७।
गः शिल्पिनि टनण् स्यात् । गायनी ॥६७॥ अत्रापि पूर्ववत् शब्दार्थकस्यैव गायते: ग्रहणम् । गायनीति-गायति, भवतीति टनण "आत ऐ:०” ।४।३॥५३॥ इति कृतात्त्वस्य सन्ध्यक्षरस्य ऐकारः आयादेशः डीश्च । नच पूर्वसूत्रणकयोग एव क्रियतां किं पृथग्योगेनेति वाच्यम् पृथग्योग उत्तरार्थः । उत्तरसूत्रे हि टनण एवानुवृत्तिरिष्टा सहनिर्देशे तु उभयोः प्रत्यययोः सहैव प्रवृत्ति-निवृत्ती स्यातामिति ॥६७।।
है: कालव्रीह्योः ।।१।। हाको हाङो वा कालव्रीह्योष्टन्ण स्यात् । हायनो वर्षम् । हायना वोहयः । हाताऽन्यः ॥६॥ ह इति सामान्यनिर्देशेन “ओहांक त्यागे" "ओहाङ्कु गतौ" इत्युभयोL- . हणम् । जहाति जिहीते वा पदार्थानिति-हायनो वर्षम् । वर्षे केचन पदार्था नश्यन्ति तान् स त्यजतीव, केचनोत्पद्यन्ते तान् प्राप्नोतीवेति सार्थकत्व