________________
(२८६ )
• अवपूर्वाभ्यां हसाभ्यां संपूर्वाच्च स्रोर्णः स्यात् । तानः । अवहारः
अवसायः । संस्राव ॥६३॥ अवहारः इति । अवहरतीति णे:वृद्धिः आरादेशश्च ग्राहः इत्यर्थः ।अवसाय इति । षोंच अन्तकर्मणि-अन्तकर्म विनाशः अवस्यतीति णः “आत ऐ: कृचौ" ४।३।५३ इत्याकारस्य ऐत्वम् आयादेशश्च संस्राव इति " गतो" संस्रवतीति ण: वृद्धिरावादेशश्च ॥६३॥
तन-व्यवीण-श्वसातः ।।१।६४। एभ्य आदन्तेभ्यश्च धातुभ्यो णः स्यात् । तानः। व्याधः । प्रत्यायः । श्वासः । अवश्यायः ॥६४॥ तान इति-"तनूयी विस्तारे" तनोतीति णः उपान्त्यवृद्धिश्च । व्यधंच् ताडने-विध्यतीति व्याधः । प्रत्याय इति-"इक् गती" प्रत्येतीति णः वृद्धिरायादेशश्च । श्वसन प्राणने-श्वसितीति श्वासः। अवश्याय इति"श्यैङ् गतौ" सन्ध्यक्षरान्तलक्षणे आकारे आकारान्तत्वम् अवश्यायत इति ण: अकारस्य ऐकारः, आयादेशश्च ॥६४।।
नृत्-खन्-रजः शिल्पिन्यकट् ५।१।६५॥ एभ्यः शिल्पिनि कर्तर्यऽकट् स्यात् । नर्तकी । खनकः। रजकः । शिल्पिनीति किम् । नत्तिका ॥६५॥ शिल्पिनि कर्तरीति-अनेनोपाधित्वं दर्शयन् उपपदत्वमपाकरोति । शिल्पं कर्मकौशलम्, तद्वान् शिल्पी । नर्तकीति-पुसि तु णकेऽपि रूपसाम्यमिति अकटि स्त्रियां ङी र्भवति णके तु आब स्यादिति प्रदर्शनार्थं स्त्रियामुदाहृतम् । “खनूग अवदारणे" खनतीति खनकः । “रज्जी रागे" रजतीति रजकः । “अधिनोश्च रजे:” ।४।२।५० इति कारस्थानिनो नस्य लोपः नौतिकेति-नत्यतीति णके उपान्त्यगुणे “अस्यातत्तत्०" २।४।१२।
"7
-
--