________________
। २८८ )
यथासङ्ख्यं निपूर्वाल्लिम्पेगंवादिपूर्वाच्च विन्देः संज्ञायां शः स्यात् । निलिम्पा देवाः । गोविन्दः । कुविन्दः । नाम्नीति किम् निलिपः ॥६१॥ निलिम्पन्तीति निलिम्पा देवाः ।गोपत्वात् गा विन्दतीत-गोविन्दः यद्वा वराहरूपेणावतारात् गां भुवं विन्दतीति गोविन्दः ।कुविन्दतीति कुविन्दः। निलिप-इति निलि-म्पतीति नाम्युपान्त्यलक्षण के निलिप इति कौगिकोऽयं . शब्दो न संज्ञा ॥६१॥
वा ज्वलादिदुनीभूग्रहास्रोर्णः ।।१।६२। ज्वलादेर्थातोर्दुनोत्यादेरास्रोश्चानुपसर्गाण्णो वा स्यात् । ज्वलः । ज्वालः । चलः । चालः । दवः । दावः । नयः । नायः। भवः । भावः । ग्राहो मकरादिः । ग्रह सूर्यादिः । आस्रव । आस्राव। अनुपसर्गादिति किम् । प्रज्वलः॥६२॥
'ज्वमादि'इत्येतावता पूर्वावधेः ज्ञानोऽपि कियत्पर्यन्तं धातवो ज्वलादिपदेन . ग्राह्य ति शङ्का यदि उतिष्ठेत्तदेदं समाधान वृत् करणात् पहिपर्यन्ता ज्वलादयः । 'वृत्' शब्दः समाप्तिसूचकः इति वत्करणेन च ज्वलादीनामाधियिते । तत्र धातुपाठे वृत् ज्वलादिः" इत्यस्य ज्वलादयो वृत्ताः समाप्ताइत्यर्थः “ज्वल दीप्तौ" ज्वलतीति अनेन वाणे पक्षेऽचि च रूपढ़यं भवतिव ज्वलः ज्वालः इति । "चल कम्पने" इत्यस्य चलः चालः। दूनीभ्यां नित्यमेवेच्छन्त्येके । व्यस्थितविभाषेयम् विविधा प्रयोगानुसारिणी अवस्था सजाता यस्याः सा चासौ विभाषेत्यर्थः तेन जलचरे मकरादी नित्यं णः सूर्यादिज्योतिषि चाच प्रत्यय एवेति व्यवस्था ज्ञातव्या । "स्रगतो" 'आस्त्रवतीति आस्रवः आस्रावः । प्रज्जल इति–णो न भवति किन्त्वजेव ॥६॥
अवहसासंस्रोः ।।१।६३।