________________
( २८७ )
-
-
प्रत्ययविधानादितरेतरयोगेनार्थमाह-एतेभ्योऽनुपसर्गभ्य इति–'साहि' इत्यादिण्यन्तनिर्देश इत्याह–ण्यन्तेभ्य इति षहण मर्षणे' इति चुरादेः स्वार्थे णिचि षहि मर्षणे' इति भ्वादेर्वा णिगि वा साहयतीति साह्यः । अत्रानेन शे “कर्तर्यनयः शव्" ।३।४।७१। इति शवि गुणेऽयादेशे "लुगस्या०" ।२।१।११३। इति पूर्वाकारलोपे च साहयः सोढा साहयिता वेत्यर्थ । सातिः सौत्रो धातुः सूत्रे एव पठितो न धातुपाठे इत्यर्थः । तस्य च सुखमर्थः णिप्रत्ययान्तस्य सूत्रे निर्देशः सातयः सुखयिता इत्यर्थः वाऽ सरूपन्यायेन शप्रत्ययाभावे क्विपि “सात्” इति रूपं परमात्मनि प्रयुज्यते इति सिद्धान्तकौमुदीकृत, यद्यपि क्विप् सामान्यतया धातुमात्राद् विहितः शस्तु विशिष्य सातेः।तथा च उत्सर्गादपवादः' इति न्यायेन शप्रत्ययेनैव भाव्यमिति 'सात्' इति रूपं दुर्लभं तथापि वाऽ सरूपविधिर्भवतीति क्विपि भवति अत एव सात्वन्तो भक्ता उच्यते सात्परमात्मा भजनीय एषामित्यर्थात् । 'विदिण् चेतनारव्याननिवासेषु' इति चुरादेः स्वार्थे णिगि, “विदक् ज्ञाने" विदिच सत्तायाम, 'विद्लु ती लाभे विदृपी विचारणे' एषामन्यतमात् णिगि च वेदि' वेदयतीति-वेदयः उत्पूर्वात् 'एज़ कम्पने' इत्यतः “एजुङ् दीप्तो" इत्यतो वा णिगि उदेजयतीति उदेजयः । “धङ् अविध्वंसने" "धृग धारणे" 'धत स्थाने' एषामन्यतमात् णिगि धारयतीति धारयः, “पारण कर्मसमाप्तौ" अतो णिचिं पारयतीति पारयः । “चितै संज्ञाने" अतो णिगि 'चितिण संवेदने' अतः स्वार्थे णिचि वा चेतयते इति-चेतयः । प्रसाहयितेति अत्रानुपसर्गात्वाभावान्नास्य प्रवृत्तिः किन्तु तृच् ॥५६॥
लिम्पविन्दः ।।१।६०॥
.
आभ्यामनुपसर्गाभ्यां शः स्यात् । लिम्पः । विन्दः ॥६॥ लिपीत् उपदेहे लिम्पतीति शे मुचादित्वान्ने “म्नां धुड्वर्गे" ।१।३।३६॥ इति नस्य मे लिम्पः “विद्लुती लाभे" विन्दतीति शे नागमे च विन्दः ॥६॥
निगवादेर्नाम्नि ।।१।६१।।