________________
( २८६ )
-
व्याघ्रः। आघ्रा ॥५७॥ विविधमाजिघ्रतीति व्याघ्रः प्राणी । आजिघ्रतीति आघ्रा नासिका।
"उपसर्गादा०" १५॥१॥५६॥ इत्यनेन "स्पर्द्ध परत्वात् प्राप्तस्य प्राध्मा०" -- ।५।१५८। इति शस्य अपवादोऽयम् ॥५७॥
घमा-मा-पा-धे-दृशः शः ।।१।५८। एभ्यः शः स्यात् । जिघ्रः। उद्धनः । पिबः । उद्धयः । उत्पश्यः ॥१८॥ जिघ्रतीति-जिघ्रः "श्रौति." ।४।२।१०८। इति जिघ्रादेशः, उद्धमतीति उद्धमः, घ्राहिसाहचर्यात् 'पा' इति पिबतेर्ग्रहणं न पातेः पिब इति-पें शोषणे
इत्यस्य पैधातोर्वादित्वेऽपि लाक्षणित्वान्न ग्रहणम् । ट्धे पाने। उद्धयतीति.. उद्धयः । “दृशक्षणे" उत्पश्यतीति शे "श्रीतिः।४।२।१०८। इति पश्या
देशः ।ट्धेष्टकारो यर्थः इति टित्वफलस्य धातुतोऽलाभात् नामरूपत्वे एव तस्य फलमिति स्त्रियाम् “अणने ये." ।२।४।२०। इति डीप्रत्यये उद्धयी स्त्रीति भवति । टित्त्वाभावे तु आबेव स्यात् । अन्ये तु उपसर्गादेवेच्छन्ति ते हि प्रकृतसूत्रे 'उपसर्गात' इत्यनुवर्तयन्ति, एतच्च बहूनामसम्मतम् विनाप्युपसर्ग बहूनां शप्रत्ययानामुपलम्भात् ॥५६॥
. साहिसातिवेद्य देजिधारिपारिचेतेरनुप-सर्गात् ।।१।५६)
एभ्योऽनुपसर्गेभ्यो ण्यन्तेभ्यः शः स्यात् । साहयः । सातयः । वेदयः । उदेजयः । धारयः । पारयः । चेतयः । अनुपसर्गादिति किम् । प्रसाहयिता ॥५॥ साहि-साति-वेधु देजि-धारि-पारि- चेतेरिति समाहारं कृत्वा निर्देशः नागमस्तु आगमस्यानित्यत्वान्न कृतः लाघवाय समाहारनिर्देशेऽपि प्रत्येक