________________
( ६८५ )
तत्र दारेषु गृहशब्दस्य तात्स्यात् प्रयोगः, गृहेषु हि ता तिष्ठन्तीति । लक्षणा द्विविधा-प्रयोजनवती निरूढा च प्रयोजनेन यत्र लक्षणाऽऽश्रीयते सा प्रयोजनवती यथा-गङ्गायां घोष इति अत्र गङ्गातीरे घोष इति कथनेन येषां शैत्यपावनत्वादीनामतिशयो न गम्यते तेषामतिशयस्य प्रतिपादनाय लक्षणाऽऽश्रीयते इति सा प्रयोजनवती। अनादितात्पर्यवती निरूढा लक्षणा यथा कुशलशब्दस्य कुशलशब्दस्य कुशग्राहिरूपार्थे व्युत्पन्नस्य 'चतुरे, प्रयोगः । एवं दारेष्वपि गृहशब्दस्य निरूढ एव प्रयोगः ।
उपसर्गाद आतो डोऽश्यः ।।१।५६। उपसर्गात्परात् श्येवर्जादाकारान्ताद्धातोर्डः स्यात् । आह्वः । उपसर्गादिति किम् । दायः। अश्य इति किम् । अवश्यायः ।
हग स्पर्धाशब्दयोः आह्वयतीति-डे “डित्यन्त्यस्वरादेः" ।।१।११४। इत्याकारतोपे आह्वः । न च पूर्वतोऽनुसृतेन कप्रत्ययेनैव "इंडेत्पुसि० ।४।३।६४। इत्याकारलोपे 'इष्टसिद्धिरिति किं डविधानेनेति वाच्यं वृदभावार्थ डविधानम् । दाय इति-ददातीति "तन्-व्यधीण" ।५।१।६४। इति णे "आत ऐ:०" ।४।३।५३। इत्याकारस्य ऐकारे आयादेशे च दायः। अश्य इति किमिति-"तन्-व्यधीण०" ।५१।६४। इति णस्य परत्वेऽपि सामान्यत आदन्तेभ्यो विहितत्वेन, अस्य च विशेषत उपसर्गपूर्वकेभ्य आदन्तेभ्यो विहितत्वेन “सामान्यशास्त्रतो नूनं विशेषो बलवान् भवेत् इति न्यायादस्य बलवत्त्वमिति णं वाधित्वा ड एव स्यादिति तद्वारणाय अश्य इति कथितम् । “पूर्वेपवादा: अनन्तरान् विधीन् बाधन्ते नोत्तरान्" इति णो बाध्यते नाण् तेन गोसंदाय इह्यादौ “कर्मणोऽण्" ।५।१७श इत्यणेव ॥५६।।
व्याघाघ प्राणिनसोः ।।१।५७। एतौ यथासङ्ख्यं प्राणिनि नासिकायां चार्थे प्रो डे निपात्यते ।