SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ ( २८४ ) अत्रापि गणे नामान्येव पठितानि सप्रत्ययपाठस्य पूर्वोक्तमेव प्रयोजनम् “ग्रहीश् उपादाने" गृह णातीति णिनि' उपान्त्यवृद्धौ-ग्राही। ष्ठां गतिनिवृत्तौ" तिष्ठतीति णिनि-"आत ऐ:०" ४ि३॥५३॥ इत्याकारस्य आयादेशे च स्थायी ग्रहादिराकृतिगणः ॥५३॥ नाम्युपान्त्यप्रीक गृजः कः ।।१॥५४॥ नाम्युपान्त्येभ्यो धातुभ्यः प्रचादिभ्यश्च का स्यत् । विक्षिपः । प्रियः । किरः । गिरः । ज्ञः ॥५४॥ ककारः कित्कार्यार्थ:-कित्कार्यं च गुणाभाव,इरादेशः, आकारलोपो य्वृच्च क्षिपंच : रणे,"क्षिपीन रणे विक्षिप्यति विक्षिपतीति वाऽनेन के लघोरुपान्त्यस्य । ४।३।४।इत्युपान्त्यगुणाभावे-विक्षिपः। 'प्रीङ्च् प्रीतो"प्रीगश् तृप्तिकान्त्योः " प्रीयते प्रीणातीति वा के "नामिनो गुणो०" ।४।३।१। इति गुणाभावे "संयोगात्" ।३।११५२। इतीयादेशे प्रियः । “कृत् विक्षेपे किरतीति के "ऋ तां कृितीर्" ।४।४।१६। इतीरादेशे किरः । “गृ त् निगरणे" निगरणं भोजनम् गिरतीति के इरादेशे “न वा स्वरे" ।।२।३।०२। इति वा लत्वे गिरः। "ज्ञांश् अवबोधने" जानातीति के "इडेत्पुसि थातो लुक् ।४।३।१४। इत्याकारलोपे ज्ञः ।।५४।। गेहे ग्रहः ॥५॥१॥५५॥ गेहेऽर्थे ग्रहे कः स्यात् । गृहम् । गृहाः ॥५५॥ गेहशब्दस्योपपदत्वशङ्कामापक माह गेहेऽर्थे इति । कर्तरि विहितोऽयं प्रत्यायः कर्तृत्वेन गेहे वाच्य एव भवति न त्वन्यस्मिन् वान्य इत्यर्थः। ग्रही उपादाने अतः के कित्त्वाच्च वृति गृहम्, पुक्लिबलिङ्गोऽयम् पुसि बहुवचनान्त एव गृहा इति उपचाराद् दारा इत्यर्थः उपचारो लक्षणा तन्मूलानि चालङ्कारिकरित्थमुक्तानि "तात्स्थ्यान् तथैव ताद्धयात् तत्सामीप्यीत्तथैव च । । तत्साहचर्यात् तादाज्ज्ञेया वै लक्षणा: धैः ।। .
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy