________________
...( २८३ .)
श्च बाध्यते अन्यथा गुणे कृतेऽवादेशे "ब्र व इति रूपापत्तेः । ब्राह्मणमा- त्मानं ब्रूते स ब्राह्मणब्रुवः यः केवलमात्मानं ब्राह्मणं कथयति न तु बाह्मणेन कर्तव्यं कर्म करोति स ब्राह्मणब्रुव उच्यते उक्तञ्च
विप्रः संस्कारयुक्तो न नित्यं सन्ध्यादि कर्म चः । नैमित्तिकं च नो कुर्यात् ब्राह्मणब्रुव उच्यते ॥ युक्तः स्यात् सर्वसंस्कारैर्द्विजस्तु नियमवतैः । कर्म किञ्चिन्न कुरुते स ज्ञयो ब्राह्मणब्रुवः । गर्भाधानादिभिर्युक्तस्तथोपनयनेन च । न कर्मकृन्न चाधीते स शेयो ब्राह्मणब्रुवः ॥ • अध्यापयति नो शिष्यान्, नाधीते वेदमुत्तमम् । गर्भाधानादिसंस्कारैर्युक्तः स्याद् ब्राह्मणब्रुवः ॥५१॥
नन्द्यादिभ्योऽन. ।।१॥५२॥ एभ्यो नामगणदृष्टभ्योऽनः स्यात् । नन्दनः। वाहनः । सहनः । संक्रन्दनः । सर्वदमनः । नर्दन ॥४२॥ नामगगदृष्टेभ्य इति-नामत्वेन गणे दृष्टेभ्य इत्यर्थः । सप्रत्ययपाठेन येषां धातूनां रूपाणि यदुपसर्गयदुपयदपूर्वाणि वा पठितानि तेभ्वस्तदुग्सर्गादिसहितेभ्य एव प्रत्ययो न तूपसर्गान्तरोपपदान्तरादिपूर्वेभ्यः । "टुनदु समृद्धौ". नन्दयतीति नन्दनः पुत्रो देवोद्यानं वा । “वशक कान्तो" कान्तिरिच्छा, "वाशिच् शब्दे" वाशयतीति-वाशनो नाम ऋषिः वासनः इति पाठे तु वसं वसण् वसिक् वसूच् इत्येतेषामन्यतमःवासयतीति-वासनो नाम ऋषिः 'अत्रोभयत्र ण्यन्तात्संज्ञायामनः । सहते इति सहनः अत्र ण्यन्तादसंज्ञायामनः । क्रदु रोदनाह्वनयोः, क्रदुङ् वैक्लव्ये समः पूर्वात्क्रन्देः संक्रन्दयतीति संज्ञायामने-संक्रन्दनः अत्र संक्रन्दनः इन्द्रः । सर्वं दमयतीति सर्वदमनो नाम राजा अत्र कमोपपदात् ण्यन्तात्संज्ञायामनप्रत्ययः, “नर्द शब्दे नर्दतीति-नर्दनः । बहुवचनताकृतिगणार्थम् ॥५२॥
ग्रहादिभ्यो गिन् ।५॥१॥५३॥ एभ्यो णिन् स्यात् । ग्राही । स्थायी । ॥५३॥