________________
( २८२ )
अच |५|१|४६ ॥
धातोरच् स्याम् । करः । हरः ॥ ४६ ॥
कृत्त्वात् कर्तरि भवति । चकारः 'अचि' | ३ | ४ | १५ | इत्यत्र विशेषणार्थः । अयंभावः--चकारानुबन्धेऽकारे परे यङो लुब इति चकारः प्रत्ययं विशेष यति तेन च 'शंसि - प्रत्ययात् | ५ | ३ | १०५ | सूत्रादिना विहितेऽकाररूपे प्रत्यये यङो लुब् न भवति । करोत्यनेनाचि गुणे च करः । एवं हरतीति हरुः ॥४६॥
लिहादिभ्यः । ५1१1०1
एभ्योऽच् स्यात् लेहः । शेषः ॥५०॥
पूर्वेण सिद्धेऽस्यारम्भो बाधक - बाधनार्थः । उत्सर्गतः सर्वत्राच्, तस्य बाधको नाम्युपान्त्यलक्षणः कप्रत्ययः शप्रत्ययो वा तस्यापि 'लिहादिभ्यः । ।५।१।५० सूत्रं बाधकं ज्ञेयम् । लिहिक् आस्वादने लेढीत्यनेनाचि गुणे च लेहः । एवं शिषण असर्वोपयोगे, शेषयतीति शेषः । उभयत्र 'नाम्यु० ||५|| ५४ | सूत्रविहितः कः बाध्यते । नाम्यु० | ५ | १।५४। सूत्रम् उत्सर्गभूतस्याच्प्रत्ययस्यापवाद इति यत्नं बिना स निवारयितुमशक्य इति विशेषविधानरूपो यत्नः कृतः । बहुवचनमाकृतिगणार्थम् ||५०।
ब्रुवः । ५।१।५१ ।
ब्रू गोऽचि ब्रुवः स्यात् । ब्राह्मणब्रुवः ॥५१॥
ब्रुवो धातोरचि ब्रुव इति निपात्यते अच्प्रत्यय मातविधाने नेष्टरूपसिद्धिरतो निपातनमाश्रितम् । निपातनात् ब्राह्मणमात्मानं ब्रूते इत्यर्थविवक्षायां "कर्मणोऽण् ” | ५|१| ६२ ॥ इति सूत्रेणान् प्राप्तः सो बाध्यते एव " अस्तिब्रुवो० | ४|४|१| इति वचादेशो “नामिनो गुणोऽक्ङिति |४| ३|१| इति गुण - .