________________
( २८१ )
'उत्सर्गसमानदेशा अपवादा:' इति न्यायात् तथा च संज्ञायां संभार्य इत्येव भवति ॥ ४६ ॥
ते कृत्या: ।५।१४७।
ध्यणतव्यानीययक्यप् प्रत्ययाः कृत्याः स्युः ॥४७॥
प्रसिद्धप्रक्रान्तवाचिना तच्छब्देन प्रक्रान्तानां घ्यणादीनां ग्रहणम् ये च नच्छब्दस्य बुद्धिस्थपरामर्शकत्वं मन्यन्ते तेषामपि मते एतदुचितमेघ । संज्ञाविधानं लाघवेन विधिसूत्रप्रवृत्त्यर्थम् यथा कृत्य इति संज्ञाविधानेन 'तत्साप्या० । ३।३।२१। सूत्रेण लघुना कृत्यशब्देन ध्यण-तव्य अनीय य- वयप् 'इत्येषां पञ्चानामपि सकर्मकेभ्यः कर्मणि अकर्मकेभ्यो भावे च विधानं भवति ॥४७॥
,''
कतृचौ |५|१|४८ 1.
धातोरेतौ कर्त्तरि स्याताम् । पाचकः । पक्ता ॥ ४८ ॥
णकतृचौ कृत्त्वात्कर्तरि भवतः । णकारो वृद्धयर्थकः, चकारः ‘त्र्यन्त्यस्वरादेः |७|४|४३| सूत्रे सामान्यग्रहणाविघातार्थः तेन तंत्र तृच्तृनोर्ग्रहणम्, अन्यथा 'निरनुबन्धग्रहणे न सानुबन्धस्य' इति न्यायेनास्य निरनुबन्धत्वेऽस्यैव ग्रहणं स्यात् न तु तृनः, उभयोनिरनुबन्धत्वे भेदो न स्यात् । उभयोर्भेदस्यापि शास्त्रोपयोमितया पृथगनुवन्धकरणस्यावश्यकत्वम् एवं च 'तृन्नुदन्ता० | २२|०| सूत्रे तन एव ग्रहणं न तु तृचः 'तृन्प्रत्ययश्च तृन् शील० | ५|२|२७| सूत्रेण शीलादिषु सदर्थात् धातोर्भवति । शीलादिप्रत्ययेषु विषयभूतेषु सामान्यतः कर्त्राद्यर्थविहितः औत्सर्गिकः प्रत्ययः प्राप्तोऽपि शीलादिषु नासरूपोत्सर्गविधिः इति न्यायेन न भवति तेन अलङ्करिणुरित्यादौ शीलाद्यर्थे 'भ्राज्य० | ५|२८| सूत्राद् विहितस्य इष्णुप्रत्ययस्य विषये सामान्यार्थविहितत्वात् प्राप्तः 'णकतृचौ |५|१|४८| सूत्रातू णको न भवतीति शीलाद्यर्थे 'अलङ्कारक' इति प्रयोगो न भवति ।
।। ४८ ।।