________________
(
२८०
)
विभक्तत्यन्तं पदम्, अस्वैरी परवशः, बाह्या--बहिर्भवा, पक्ष्यो वर्गः सम्बन्धिजनः । प्रगृह्यते विशेषेण ज्ञायते तत्प्रगृह्य पदम् । अवगृह्य प्रगृह्यच' संज्ञाविशेषी संज्ञिनी चैतयोः विभक्त्यन्त एव, न तु नैयायिकाभिप्रेत शक्त पदम् । अयमाशयः-अवगृह्यसंज्ञा वेदे प्रसिद्धा अवगृह्यसंज्ञकपदानन्तरं पदान्तरस्वोच्चारणं कियन्तं कालं विरम्य जायते । प्रगृह्यसंशा तु पाणिनीये प्रसिद्धा, यंदनन्तरं स्वरसन्धिर्न जायते । यथा 'अग्नी' इति अत्र ईदूदेदद् द्विवचनम् ।१।२।३४। सूत्रादसन्धिः । पाणिनीये तु एतेन सूत्रेण प्रगृह्यसंज्ञा विधीयते । यद्यपि पदावयवस्य द्विवचनादेः प्रगृह्यसंज्ञा विधीयते न तु पदस्य तथाप्यवयवधर्मस्य समुदाये उपचारात् पदेपिप्रगृह्यत्वव्यवहार इति । गृह्यन्ते ज्ञायन्ते परतन्त्रतया परवशतया वा इति गृह्याः कामिनः । बाह्या-इति स्त्रीलिङ्गनिर्देशो लिङ्गान्तरेऽभिधानख्यापनार्थः तेन स्त्रियामेवास्य प्रयोगो भवति न तु पुल्लिङ्गादो। व्यञ्जनान्तलक्षणध्यणोऽपवादोऽयं योगः ॥४४॥ .
-
भृगोऽसंज्ञायाम् ॥१४॥ मृगोऽसंज्ञायां क्यप् स्यात् । भृत्यः पोष्यः । असंज्ञायामिति किम् । भार्या पत्नी ॥४५॥
मुंग भरणे पोषणे च इति धातोः भ्रियते इति भृत्यः पोष्यः इत्यर्थः । अत्र कर्मणि क्यप् तागमश्च । भ्रियते पोष्यतें सा भार्या पत्नी । यद्यपि संज्ञायाम् 'भृगो नाम्नि ।५।३।६८। सूत्रात् क्यबस्ति तथापि तस्य भावे एवं विधानात् भार्येत्यत्र क्यब् न ॥४५॥
समो वा ।।१।४६। संपूभृगः स्यप् वा स्यात् । संभृत्यः । संभार्यः ॥४६॥ . पूर्वेण सोपसर्गादपि नित्यमेव क्यपि प्राप्ते तस्य पाक्षिकस्वार्थमिदं सूत्रम्, अनेन क्यपि संभृत्यः, पक्षे घ्यणि संभार्यः । इदमप्यसंज्ञायामेव प्रवर्तते