________________
( २७६ )
मायमिति-पक्षे व्यञ्जनान्तलक्षणो उपान्त्तगुण घ्यण् “मजोऽस्य वृद्धिः" ।४।३।४२। सूत्रात् आकारः "क्त'ऽ निट:०" ।४।१।१११॥ इति जस्य गत्वम् च । शस्यमिति-शंसू स्तुती च चकाराद् हिंसायाम् अतः क्यप “नो व्यञ्जनस्या." ।४।२।४५॥ इति नलोपश्च । पक्षे व्यञ्जनान्तलक्षणे घ्यणि शंस्यमिति । जपेः विकल्पसामर्थ्यात्क्यबभावपक्षे घ्यणि जाप्यमिति यद्यपि क्यबभावपक्षे पवगांन्तत्वेन पवर्गान्तलक्षणो यः प्राप्तस्तथापि क्यपि ये वा रूपे विशेषाभावात् विकल्पविधानरूपप्रयोजनस्य सिद्धिर्न स्यादिति विशेषविहितमपि यं बाधित्वा ध्यणेव भवतीति भावः ॥४२॥
जिविपून्योहलिमुञ्जकल्के ।।१।४३। जेविपूर्वाभ्यां च पूनीभ्यां यथासङ्ख्यं हलिमुञ्जकल्केषु कर्मसु क्यप् स्यात् । जित्यो हलिः । विपूयो मुञ्जः । विनीयः कल्कः । हलिमुञ्जकल्क इति किम् । जेयम् । विपव्यम् । विनेयम् ॥४३॥ पूश्च नीश्च-पून्यौ, विपूर्वा=विपून्थौ, जिश्च विपून्यौच जिविपूनि, तस्मात् । जीयते निपुणेन स जित्यो हलिः, महद्धलं हलिरुच्यते । पूङ पूग् वा विपवितव्यः इति विपूयः, मुञ्जस्तृणविशेषः । रज्ज्वादिकरणाय शोधयितव्य इत्यर्थः । विनीयते सिद्धत्वं प्राप्यते इति विनीयः । आत्मसंस्काराय आत्मन्युत्कर्षाधानाय वा तैलादिषु विनेतव्यः संस्थाप्य इत्यर्थ इति केचित् । कल्कस्त्रिकलाचर्णम् अथवा तैलेन तेन वा त्रिफलादिसमवेतेन साध्यः कश्चिदौषधिविशेषः । जयमित्यादी सर्वत्र स्वरान्तलक्षणो यप्रत्ययः, गुणश्च, द्वितीये 'य्यक्ये ।१।२।२५॥ सूत्रात् ओकास्यावा-देशः । जेतु विपवितु नेतु योग्य किमपि वस्त्विति तदर्थः ॥४३॥
पदास्वैरिबाह्यापक्षणे ग्रहः ।।१।४४। एष्वर्थेषु ग्रहेः क्यप् स्यात् । प्रगृह्य पदम् । गृह्माः परतन्त्राः । प्रामगृह्या, बाह्य त्यर्थः । गुणगृह्या गुणपक्ष्या ॥४४॥