________________
( २७८ )
अस्य ग्रहणं न भवत्यतः तत्र ऋवर्णान्तलक्षणौ घ्यणेव भवति । ष्टु क स्तुती इति स्तुघातोः अवश्यस्तुत्य इति - अत्रावश्यमो मकारस्य " कृत्येs वश्यमो लुक् ” | ३ |२| १३८ । इति लुग् भवति । अत्र आवश्यकेऽर्थं द्योत्ये “उवर्णादावश्यके” ।५।१।१६ | इति घ्यण् प्राप्तः सोऽनेन परत्वन्निषिध्य से अयं भावः-स्तुत्य इत्यत्त्रेदं सावकाशम् अत्रश्यपाव्यमित्यादौ च 'उवर्णादा' ० |५|91981 इति सावकाशं अवश्यस्तुत्य इत्यत्र परत्वादिदमेव प्रवर्तते । प्रकृतसूत्रे एतीति निर्देशेन यस्य यस्य तादृशं रूपं तस्य तस्य ग्रहणात् । 'इ'गती' अयति "इंणुक् गतौ एति, इंक् स्मरणे अध्येति, इक् अध्ययने अधीते इत्येषां मध्ये "इक गतौ" 'इ'क् स्मरणे' इत्येतयोर्ग्रहणम् इक् स्मरणे० इड्क् अध्यने इत्येतयोः नित्यमधिना योगो भवति । "शासूक् अनुशिष्टी" अनुशिष्टिनियोगः इति शास्धातोः क्यपि "इसास: शासो व्यञ्जने” ।४।४।११८। इत्यास इसादेशः सस्य षत्वे च शिष्य इति ॥ ४० ॥
ऋदुपान्त्यादकृपिचदृचः । ५।१।४१।
1
ऋदुपान्त्याद्धातोः कृपितृतिऋचिवर्जात् क्यप् स्यात् । वृत्यम् । अकृपितृदृच इति किम् । कल्प्यम् । चर्त्यम् | अर्घ्यम् ||४१ ॥
1
व्यञ्जनान्तलक्षणध्यणोऽपवादः । वृतुङ् वर्तने इत्यतोऽनेन क्यपि कित्त्वा - दुपान्त्यगुणाभावे-वृत्यम् । कृपौड् सामर्थ्य अस्य प्रवर्गान्तत्वात् "शकितकि० " |५|१| २६ । इति ये गुणे "ऋलृलं० " | २|३|| इति लत्बे च कल्प्यम् - पृतैत् हिंसाग्रन्थयोः, ऋचत् स्तुती आभ्यां व्यञ्जनान्तलक्षणे घ्यणि उपान्त्यगुणे च चर्त्यम्, अयमिति ॥४१॥
कृवृषिमृजिशंसिगुहिदुहिजपो वा । ५।१।४२ ॥
एस्यः क्यप् वा स्यात् । कृत्यम् । कार्यम् । वृष्यम् । वध्यम् । मृज्यम् । मार्ग्यम् । शस्यम् । शंस्यम् । गुह्यम् । गोह्यम् ।
दुह्यम् । दोह्यम् । जयम् । जाप्यम् ॥ ४२ ॥
I