________________
( २७७ )
एते क्यबन्ता संज्ञायां निपात्यते । कुप्यं धनम् । भिद्यम् । उध्यः नदः । सिध्यः । तिष्यः । पुष्यः । युग्यं वाहनम् । आज्यं घृतम् । सूर्यो रविः ॥३६॥ गुपो रक्षणो गोपाय्यते तत् कुप्यं धनमिति सामान्योक्तावपि कुप्यशब्देन स्वर्णरजताभ्यामन्यद् धनमुच्यते स्वोपज्ञधातुपारायणे तथाभिधानात् । तत्र “गुपच् व्याकुलत्वे" इत्यस्यापि कुप्यमिति साधितम् । निपातनात् धनेऽर्थे क्यप् आदिकत्वं चे अन्यत् गोपाय्यं अत्र स्वरान्तलक्षणो यः पूर्वाकारस्य लोपश्च । आयप्रत्ययस्य वैकल्पिकत्वेन “शकि-तकि." ५।१।२६। इति पवर्गान्तलक्षणे ये गोप्यमित्यपि भवति । भिद्यमिति–भिदेरुज्झश्च नदेऽभिधेये कर्तरि क्यप् भिदृ पी विदारणे भिनत्ति कुलानि इति भिद्यः उज्झत् उत्सर्गे उज्झत्युदकम् ऊध्यः नदार्थादन्यत्र तृचि भेत्ता उज्झिता सिधित्विषिपूषिभ्यो नक्षत्रे वाच्येऽधिकरणे क्यप त्विषेर्वलोपश्च । सिध्यन्ति त्वेषन्ति पुष्यन्ति अस्मिन् कार्याणीति सिध्यः तिष्यः पुष्यः इमे नक्षत्रविशेषवाचकाः अन्यत्र सेधन:, त्वेषणः, पोषणः । अत्र सर्वत्राधिकरणेऽ नट यूजे: कर्मणि वाहनेऽ भिधेये क्यण गत्वं च । युञ्जन्ति यत्तेद् युज्यं वाहनं मजाश्वादि युज्यतेनेनेति युग्यं वाहनम् इति पारायणे करणेऽपि क्यपि साधितम्, योग्यमन्यत् अत्र व्यञ्जनान्तलक्षणे ध्यण् आङपूर्वादजेघ तेऽर्थे क्यप् । आञ्जन्त्यनेनेति आज्यं घतम् । संज्ञाया अन्यत्र करणेऽ नटि आञ्जनमिति भवति, सं. गतौ सर्तेः कर्तरि क्यप् ऋकारस्योर षत् रणे सुक्तेर्वा कर्तरि क्यप् रान्तश्च देवतायाम् सरति सुवति वा कर्मसु लोकानिति सूर्यो रविः ॥३६॥
दृवृगस्तुतिशासः ।।१।४०। एभ्यः क्यप् स्यात् । आदृत्यः । प्रावृत्यः । अवश्यस्तुत्यः । जुष्यः । इत्यः । शिष्यः। ॥४०॥ "दृड्त् आदरे" वृगिति गकारानुबन्धग्रहणात् “तदनुबन्धग्रहणे नातदनुबन्धकस्य ग्रहणम्” इति न्यायेन डकारानुबन्धकस्य "वृड्श् संभक्ती इति