________________
( २७६ )
कत्वम् प्रत्युदाह्रियते-श्वघात्या सेति अत्र शुना हव्यात इति 'ऋवर्णव्यञ्जनाद् घ्यण्' ।५।१।१७। इति कर्मणि घ्यण "ञ्णिति घात्" ।४।३।१०० इति घातादेशः “कारकं कृता" ।३।१।६८। इति समासः । अत्र हन्तेरेव प्रत्युदाहरणमुक्त न तु भवतेः, तस्याकर्मकतया ततो भाव एव प्रत्ययः स्यात् । न च "भण अवकल्कने” इति चौरादिकः सकर्मको भवतीति ततः कर्मणि स्वादिति वाच्यं धातुपाठे प्रथमोपस्थितत्वेन प्रसिद्धत्वेन च सत्तार्थकस्यैव भवतेरिह ग्रहणात् ॥३६॥
अग्निचित्या ।।१।३७।। अग्ले पराच्चे स्त्रीभावे क्यप् स्थात् । अग्निचित्या ॥३७॥. अग्ने पराच्चिनीतेः स्त्रीभावे क्या निपात्यते-अग्नेश्चयनम् अग्निचित्या। अत्र कित्त्वाद् गुणाभावः, पित्त्वात्तागमः । ।।३७।।
खेयमुषोछ ।५।१३८॥ एतौ क्यबन्तौ साधू स्तः । निखेयम् । मृषोद्यम् ॥३८॥ अनुपसर्गादिति वास्व: इति. च निवृत्तम्। खन्यते इति खेयम् । अव निपातनस्य न खेयमात्रप्रयोजनमपि तु खनेय॑णो बाधोऽन्त्यस्वरादेरेत्त्वविधानं च, तेनोपसर्गपूर्वादपि भवतीत्वाह-निखेयमिति मृषोद्यते इति नित्यं क्यपि मृषोद्यम् 'नाम्नो वदः क्यप च'।५।१।३५। इत्यनेन पक्षे यः प्राप्तः तद्वाधनाथ निपातनम् । नच निपातार्थकत्वेनास्य सूत्रस्य पूर्वसूत्रेण योगविभागो वृथा इति वाच्यम् नात्र भाव एवेति योगविभास्य करणात् । खेयस्यापि कर्मणि प्रवृत्ति सकर्मकत्वात् तथा मृषोद्यस्यापि कर्मणि प्रवृत्तिः । अतश्च विशेष्यनिघ्नत्वमेतयोः शब्दयोः, भावे च सति क्लीवत्वमेव स्यात् । ।३८।।
कुष्यमियोध्यसिध्यतिष्यपुष्ययुग्यायसूर्य नाम्नि ॥१॥३६॥